पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
[अ०३क्ष्लो०३८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

काम एष क्रोध एष इत्यादिवचनं स्मृतेः ।
प्रवर्तको नापरोऽतः कामादन्यः प्रतीयते " इति ॥

 अकामत इति मनुवचनम् ! अन्यत्स्पष्टम् ॥ ३७ ॥

 श्री० टी०- अत्रोत्तरम्-श्रीभगवानुवाच-काम एष इति । यस्त्वया पृष्टो हेतुरेष काम एव । ननु क्रोधोऽपि पूर्व त्वयोक्त इन्द्रियस्येन्द्रियस्येत्यत्र, सत्यं, नासौ ततः पृथक्, किंतु क्रोधोऽप्येष एव, काम एव हि केनचित्प्रतिहतः क्रोधात्मना परिणमते । अतः पूर्वं पृथक्त्वेनोक्तोऽपि क्रोधः कामजय एवं क्रोधजय इत्यभिप्रायेण कामनैकीकृत्योच्यते । रजोगुणात्समुद्भवतीति तथा । अनेन सत्त्ववृद्ध्या रजति क्षयं नीते सति कामोऽपि क्षीयत इति सूचितम् । एनं काममिह मोक्षमार्गे वैरिणं विद्धि । अयं च वक्ष्यमाणक्रमेण हन्तव्य एव यतो नासौ दानेन संधातुं शक्य इत्याह- महाशनो महदशनं यस्य दुष्पूर इत्यर्थः । न च साम्ना संधातुं शक्यः, यतो महापाप्माऽत्युग्रः ॥ ३७॥

 म०टी०-तस्य महापाप्मत्वेन वैरित्वमेव दृष्टान्तैः स्पष्टयति-

धूमेनाऽऽवियते वहिर्यथाऽऽदर्शो मलेन च ॥
यथोल्बेनाऽऽवृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

 तत्र शरीरारम्भात्प्रागन्तःकरणस्यालब्धवृत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावच्छिन्ने लब्धवृत्तिकेऽन्तःकरणे कृताभिव्यक्तिः सन्स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनरुद्रिच्यमानः स्थूलतरो भवति । स एव पुनर्विषयस्य भुज्यमानतावस्थायामत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः-यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निराव्रीयते । द्वितीयावस्थायां दृष्टान्तः-यथाऽऽदर्शों मलेनासह जेनाऽऽदर्शोत्पत्त्यनन्तरमुद्रिक्तेन । चकारोऽवान्तरवैधर्म्यसूचनार्थ आव्रीयत इतिक्रियानुकर्षणार्थश्च । तृतीयावस्थायां दृष्टान्तः-यथोल्बेन जरायुणा गर्भवेष्टनचर्मणाऽतिस्थूलेन सर्वतो निरुध्याऽऽवृतस्तथा प्रकारत्रयेणापि तेन कामेनेदमावृतम् । अत्र धूमेनाऽऽवृतोऽपि वह्निर्दाहादिलक्षणं स्वकार्य करोति । मलेनाऽऽवृतस्त्वादर्शः प्रतिबिम्वग्रहणलक्षणं स्वकार्य न करोति । स्वच्छताधर्ममात्रतिरोधानात्स्वरूपतस्तूपलभ्यत एव । उल्बेनाऽऽवृतस्तु गर्भो न हस्तपादादिप्रसारणरूपं स्वकार्य करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥ ३८ ॥

 श्री०टी०-कामस्य वैरित्वं दर्शयति-धूमेनेति । यथा धूमेन सहजेन वह्निराव्रियत आच्छाद्यते । यथा चाऽऽदर्शो मलेनाऽऽगन्तुकेन । यथा चोल्बेन गर्भवेष्टनचर्मणा गर्भः सर्वतो निरुध्याऽऽवृतस्तथा प्रकारत्रयेणापि तेन कामेनाऽऽवृतमिदम् ॥३८॥

 म०टी०-तथा तेनेदमावृतमिति संग्रहवाक्यं विवृणोति-