यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
श्री० टी०-तदे[१]व वाक्यमाह पश्यैतामित्यादिनवमिः श्लोकैः–भो आचार्य पाण्डवानां विततां चमूं से[२]नां सप्ताक्षौहिणीपरिमितां पश्य द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाऽधिष्ठिताम् ॥ ३ ॥
म० टी०-नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह-
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ॥ |
अत्र शूरा इत्यादिभिस्त्रिभिः ।' न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूराः सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः । शूरानैव विशिनष्टि --महेष्वासा इति । महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव पर सैन्यविद्रावणकुशला इति भावः । महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह-युधि युद्धं भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समास्तुल्याः । तानेवाऽऽह-युयुधान इत्यादिना महारथा इत्यन्तेन । युयुधानः सात्यकिः । द्रुपदश्च महारथ इत्येकः । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युः । द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । चकारा दन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्ध। एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्व एव महारथाः सर्वेऽपि महारथा एवं नैकोऽपि रथेाऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपक्षणम् ॥