पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० १क्ष्लो०३ ]
श्रीमद्भगवद्गीता ।


चाक्षुष[१]ज्ञानविषयीकृत्य तदा सङ्ग्रामोद्यमकाल आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारमुपसंगम्य स्वयमेव तत्समीपं गत्वा न तु स्वसमी[२]पे तमाहूय । एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते । भयेन स्वरक्षार्थं तत्समीपगमनेऽपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह-राजेति । आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रा[३] मितुं, वचनमात्रमेवाब्रवीन्न तु[४] कंचिदर्थमिति वा ॥ २ ॥

 श्री०टी०-दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया व्यवस्थितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वाक्यमुवाच ॥ २ ॥

 म० टी०-तदेव वाक्यविशेषरूपं वचनमुदाहरति-पश्यैतामित्यादिना तस्य संजनयन्हर्षमित्यतःप्राक्तनेन । पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयंस्तस्य क्रोधातिशयमुत्पादयितुमाह---

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ॥
व्यूढां दुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

 एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीमनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्यापरोक्षी कुरु प्रार्थनायां लोट् । अहं शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह-आचार्येति । दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति भावः । ननु तदीयावज्ञा सोढव्यैवास्माभिः प्रतिकर्तुमशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकर मेवेत्याह--व्यूढां तवशिष्येणेति । शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव । व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा द्रुपदपुत्रेणेतिकथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम् । धीमतेति पदमनुप्रेक्षणीयत्वसूचनार्थम् । व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम् । अन्यच्च हे पाण्डुपुत्राणामाचार्य नतु मम तेषु स्नेहातिशयात् । द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाऽध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति । शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम् । अत एव तच्चमूदर्शनेनाऽऽनन्दस्तवैव भविष्यति भ्रान्तत्वात् , नान्यस्य कस्यचिदपि यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति तत्सैन्यं प्रदर्शयान्निगूढं द्वेषं द्योतयति । एवं च


  1. के. ज्ञानेन वि” ।
  2. क. भीपमा ।
  3. क. ख. ङ. छ. ज. ञ. 'मितं, व” ।
  4. झ. तु किंचि ।