पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १क्ष्लो०७ ]
'श्रीमद्भगवद्गीता ।


तल्लक्षणं च----
 " एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
 शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
 अमितान्याधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
 रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृतः" ॥

 इति ॥ ४ ॥ ९ ॥ ३ ॥

 श्री० टी०-अत्र शूरा इति । अत्रास्यां चम्वामिषवो बाणा अस्यन्ते क्षिप्यन्त एभिरितीष्वासा धनूंषि महान्त इष्वासा येषां ते तथा । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शू[१]राः सन्ति । तानेव नामभिनिर्दिशति युयुधानः सात्यकिः ॥ ४ ॥

 किं च---धृष्टकेतुरिति । चेकितानो नामैको राजा । नरपुंगव नरश्रेष्ठः शैब्यः ॥ ५ ॥

 युधामन्युश्चेति । विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युः । द्रौपदेया द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम्-

"एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
रथी त्वेकेन यो युध्येत्तन्यूनोऽर्धरथो मतः इति ॥ ६ ॥

 म० टी०--यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्यभिप्रायमाशङ्कयाऽऽह-

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ॥
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

 तुशब्देनान्तरुत्पन्नमपि भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनाद्वधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य नायका मुख्या नेतारस्तान्संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिगृहीत्वा परिशिष्टा-


  1. क. अ. “राः शौण क्षात्रधर्मेणोपेताः स ॥