पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 31. आसक्तचेतस्– सर्वत्रासक्तचेतसाम् सर्वत्र आसक्तचेतसः (आसतानि चेतांसि येषां ते) सर्वत्रास ऋचेतसः, तेषाम् । 32. इच्छमान / इच्छु– अनिच्छमानः—न इच्छमानः । 33. इच्छा — विगतेच्छाभयद्वेषः– विगतानि इच्छा भयं द्वेषश्च यस्मात् (यस्य हृदयात्) सः । इष्वास — महेष्वासः - महान् इष्वासः [ इषवः अस्यन्ते अनेन इति (धनुर्धारी योधः) ] । 34. ई ईसु-जन्मकर्म फलेप्सवः – जन्मकर्मफलानो [जन्मकर्मणां (जन्मकारकाणि कर्माणि जन्म- कर्माणि, तेषां) फलानि जन्मकर्मफलानि, तेषा] ईप्सा येषां ते । 35. 36. ईश्वर – (१) परमेश्वरम् । (२) महायोगीश्वरः। (३) योगीश्वरः । (४) सर्वेश्वरः। — ( १ ) परमः ईश्वरः परमेश्वरः तम् परमेश्वरम् । (२) महायोगीनां (मद्दान्तः योगिनः महायोगिनः, तेषाम् ) ईश्वरः महायोगीश्वरः; महान् योगीश्वरः ( योगिनां ईश्वरः) महायोगीश्वरः इति वा । ( ३ ) योगिनां ईश्वरः योगीश्वरः; संबोधने विसर्ग- लोपः । ( ४ ) सर्वेषां ईश्वरः सर्वेश्वरः । 37. उत्तम-अनुत्तमम्-न उत्तमः अनुत्तमः, तम् । 38. उदय- परधर्मोदयात् -- परधर्मस्य (परेषां धर्मः परधर्म: तस्य) उदयः परधर्मोदयः, तस्मात् । 39. उपमान-कर्मोपमानम् कर्मणामुपमानम् । 40. उपहृत - उपहतान्तरात्मा--(विप्रहपद्धत्ये 'अन्तरात्मन् शब्दो दृष्टव्यः) । 41. ऋषि - महर्षयः-महान्तो ऋषयः । 42. J ऐ पेश्वर्य-भोगेश्वर्यगती: (? भोगेश्वर्यगतिः or भोगेश्वर्यगती) - भोगश्व ऐश्वर्यं च यस्यां सा गतिः; भोगगतिः ऐश्वर्यगतिश्च वा, भोगैश्वर्यगती । 43. कर – रविकराः - खेः कराः ( रश्मयः) । 44. कर्मन् – (१) कर्मोपमानम् । (२) गुणकर्मविभागतः । (३) पापकर्मभिः । (४) स्वकर्मणि । - ( १ ) (चिमहपद्धत्यै 'उपमान' शब्दो दृष्टव्यः) । (२) गुणविभागः कर्मविभागश्च ( गुणपरत्वेन विभागः, कर्मपरत्वेन विभागच) गुणकर्मविभागौ, तयोः गुणकर्मविभागतः । ( ३ ) पापानि कर्माणि ये कुर्वन्ति ते पापकर्माणः, तैः पापकर्मभिः । ( ४ ) स्वस्य कर्म स्वकर्म, तस्मिन् स्वकर्मणि । 45. कर्मबन्ध-कर्मबन्धविनिर्मुक्ताः कर्मणां बन्धाः कर्मबन्धाः, तेभ्यो विनिर्मुक्ताः । 46. कलुष– कलुषक्षुद्रः- कलुषःच असौ क्षुद्र 299