पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

704. 705 706. 707. मन्त्र - मन्त्रहीनम् - मन्त्रेभ्यो हीनः ( रहितः) मन्त्रहीनः तम् । ममत्व - निर्ममः- ममत्वं निर्गतं यस्मात् (यस्य हृदयात्) सः । मयि (अस्मद् ) - (१) मय्यर्पितमनोबुद्धिः । (२) मध्यावेशितचेतसाम् । (३) मय्या सकमनाः । - ( १ ) (विग्रहपद्धये 'अर्पित' शब्दो दृष्टव्यः) । ( २ ) ( विग्रहपद्धत्ये 'आवेशित' शब्दो दृष्टव्यः) । ( ३ ) [ विग्रहपद्धये 'आसक्त' (२) शब्दो दृष्टव्यः] 708. मर्त्य - मर्त्यलोकम् - मर्त्यानां लोकः मर्त्यलोकः तम् । 709. मल - (१) अमलान् । (२) निर्मला । (३) निर्मलम् । (१) न मलः विद्यते येषु ते असलाः, तान् अमलान्। ( २-३) [विपद्धतिभ्यां 'निर्गत' (११-१२ ) शब्दौ दृष्टव्यौ] । Secondary Word-Units मनुष्य-मनुष्यलोके - मनुष्याणां लोकः ( यस्मिन् मनुष्याः वसन्ति सः लोकः) मनुष्य- लोकः तस्मिन् । J 710. महत् - (१) महद्ब्रह्म । (२) महयोनिः । (३) महर्षयः । ( ४ ) महर्षीणाम् । (५) महात्मनः । (६) महात्मन् । (७) महात्मा । (८) महात्मानः १ (९) महानुभावान् । (१०) महापाप्मा | (११) महाबाहुः । (१२) महाबाहो (१३) महाभूतानि । (१४) महायोगेश्वरः (१५) महारथः (१६) महारथाः । (१७) महाशङ्खम् । (१८) महाशनः । (१९) महेश्वरः । (२०) महेश्वासाः । -( १ ) [विग्रहपद्धत्यै ‘ब्रह्मन्’ (१३) शब्दो दृष्टव्यः] | ( २ ) महती योनिः मद्योनिः । (३-१३) [विग्रहृपद्धतिभ्यः 'ऋषि' (३-४), 'आत्मन्' (३३-३६) 'अनुभाव', 'पाप्मन', 'बाहु' (३-४), 'भूत' (२०) शब्दाः क्रमेण दृष्टव्यः ] ( १४ ) मद्दान् योगेश्वरः (योगस्य, योगानां , ईश्वरः) महायोगेश्वरः । ( १५-१६ ) महान् रथः, यस्य सः महारथः, येषां ते महारथाः; (महारथः, अतिरथः इत्यादयो योधानां कक्षाः) । ( १७ ) महान् शङ्खः महाशङ्खः, तम् महाशङ्गम् ( १८-२० ) [विपद्धतिभ्यः 'अशन', 'ईश्वर' (५) 'इष्वास' (२) शब्दाः क्रमेण दृष्टव्याः] । वा, महर्षि-महर्षिसिद्धसङ्घाः- महषीणां (महान्तः ऋषयः महर्षयः, तेषां) सिद्धानां च 711 712 713. 714. सङ्गाः । मही - (१) महीकृते । (२) महीक्षिताम् । (३) महीपते । (१ - ३ ) [विपद्धतिभ्यः ‘कृते', 'क्षित्', 'पति' (४) शब्दाः क्रमेण दृष्टव्याः] । महेश्वर - (१) भूतमहेश्वरम् । (२) लोकमहेश्वरम् । (३) सर्वलोकमहेश्वरम् - ( १ ) [विग्रहपद्धये 'भूत' (१४) शब्दो दृष्टव्यः] । ( २ ) लोकानां महेश्वरम् (महान् ईश्वरः महेश्वरा, तम्) लोकमद्देश्वरम् । ( ३ ) सर्वलोकानां (सर्वेषां लोकानां) मद्दे- श्वरम् (महान् ईश्वरः महेश्वरः, तम्) सर्वलोकमहेश्वरम् । मा (Noun) - (१) माधव । (२) माधवः । – ( १-२ ) मा (लक्ष्मीः), तस्याः धवः पतिः (विष्णु:); संबोधने विसर्गलोपः । 715. माष - निमित्तमात्रम् - [विग्रहपद्धत्यै 'निमित्त' शब्दो दृष्टव्यः] । 275