पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364. छेद्य / छिद्-अच्छेद्यः न छेद्यः (छेदनशीलः) r 365. 366. 367. 368. 369 370 371. 372. 373. 374. Bhagavadgitā Word-Index Pt. II -A ( a ) 375. 376, 377. जगत् (१) जगत्पते । (२) जगन्निवास | - ( १ ) जगतः पतिः जगत्पतिः । संबोधने विसर्गलोपः। (२) जगतः निवासः ( निवासस्थानम् ) जगन्निवासः संबोधने विसर्गलोपः । V जघन्यगुणवृत्त - जघन्यगुणवृत्तस्थाः- जघन्यगुणवृत्ते जघन्यगुण निर्मित वृत्तं (जधन्यः गुण: जघन्यगुणः तेन निर्मित) वृत्तम् जघन्यगुणवृत्तम तस्मिन् ये स्थिताः (तमोगुण- प्रेरितं येषां चारित्र्यं ते ) । जघन्यगुणवृत्ति – जघन्यगुणवृत्तिस्थाः- जघन्यगुणवृत्तौ [ जघन्यगुणस्य (जधन्यः गुणः जधन्यगुणः तस्य ) वृत्तिः जघन्यगुणवृत्तिः तस्यां] ये स्थिताः ते (तमोगुणवृत्तिः येषां स्वभावः ते, तमोगुणप्रकृतयः इति यावत् ) | जरूस– स्थावरजङ्गमम् - स्थावरं च जज्ञमं च । जन- (१) जनसंसदि । ( २ ) जनाधिपाः । (३) जनार्दन । (४) स्वजनम् । ( १ ) , जनानां संसद् जनसंसद् तस्याम् जनसंसदि। ( २ ) जनानां अधिपाः जनाधिपाः । ( ३ ) (विग्रहपद्धत्यै 'अर्दन' शब्दो दृष्टयः) । ( ४ ) स्वस्य (आत्मनः) जनः स्वजनः, तम् स्वजनम् | जनक-जनकादयः - जनकः आदिः येषां ते । जन्म - (१) पुनर्जन्म । (२) सदसद्योनिजन्मसु । – ( १ ) पुनः जन्म पुनर्जन्म ( २ ) सदसयोनिषु (सद: असदश्व योनयः सदसधोनयः, तासु ) जन्मानि सदसधोनिजन्मानि, तेषु सदसद्योनिजन्मसु । जन्मकर्मफल- जन्मकर्मफलप्रदाम् – जन्मकर्मफलं [जन्म एव कर्मफलं (कर्मणः फलं)] या मददाति सा जन्मकर्मफलप्रदा, ताम्; अथवा यो जन्मकर्मफलं (जन्म येन भवति तादृशं कर्म यस्य फलं) या मददाति सा जन्मकर्मफलप्रदा, ताम् जन्मकर्म- फलप्रदाम् । जन्मबन्ध-जन्मबन्ध विनिर्मुक्ताः । --जन्मबन्धात् (जन्म एव बन्धः तस्मात्) विनिर्मुक्ताः | जन्ममृत्युजरा - जन्ममृत्युजरादुःखः- जन्ममृत्युजराः (जन्म च मृत्युश्च जरा च) एव दुःखानि जन्ममृत्युजरादुःखानि तैः । श्रीशङ्करानुमत विग्रहस्तु जन्म च मृत्युश्च जरा च दुःखानि च, जन्ममृत्युजरादुःखानि, तैः इति । जन्ममृत्युजराव्याधिदुःखदोष- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् --(विप्रहपद्धयै 'अनुदर्शन' शब्दो दृष्टव्यः) । जप-जपयज्ञः - जपात्मकः यज्ञः जय - जयाजयो-जयः च अजयः (न जयः, पराजयः) च । 378. जरामरण – जरामरणमोक्षाय – जरामरणयोः (जरा च मरणं च तयोः) मोक्षः जरामरण- मोक्षः, तस्मै | 379. जस्र - अजस्रम्-न जस्रं (अन्तरं ) यस्मिन् तत् (निरन्तरम्) | 252