पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

247. Secondary Word-Units कर्तृ - (१) अकर्तारम् । (२) आदिकों | – ( १ ) न कर्तृ अकर्तृ, तम् अकर्तारम् । ( २ ) [विग्रहपद्धत्यै 'आदि' (५) शब्दो दृष्टव्यः ] | 248. कर्तृत्व - कार्यकारणकर्तृत्व - कार्यकारणयोः (कार्यं च कारणं च कार्यकारणे, तयोः) कर्तृत्वम् कार्यकारणकर्तृत्वम् तस्मिन् । , > 249. कर्मकृत्- अकर्मकृत्-न कर्मकृत् (कर्म करोति इति ) । 250. (१३) कर्मबन्धम् । (१७) कर्मयोगेन । (२१) कर्मसमुद्भवः । ( २५ ) कर्मसन्न्यासात् । (२५) कर्मानु (२९) गुण- कर्मन् – (१) अकर्म | ( २ ) अकर्मणः । (३) अकर्मणि| ( ४ ) इन्द्रियकर्माणि । (५) उप्रकर्माणः । (६) कर्मचोदना । (७) कर्मजम् । (८) कर्मजा । (९) कर्मजान् । (१०) कर्मफलम् । (११) कर्मफले (१२) कर्मबन्धनः । (१४) कर्मबन्धनैः। (१५) कर्मयोगम् । (१६) कर्मयोगः | (१८) कर्मसङ्गिनाम् । (१९) कर्महि । ( २० ) कर्मसज्ञेन । (२२) कर्मसङ्ग्रहः । (२३) कर्मसंज्ञितः | बन्धीनि। (२६) कर्मेन्द्रियाणि । (२७) कर्मेन्द्रियैः । (२८) क्षत्रकर्म कर्मविभागयोः । (३०) गुणकर्मविभागशः । (३१) गुणकर्मसु । (३२) पुण्यकर्मणाम् । (३३) प्राणकर्माणि । (३४) ब्रह्मकर्म । (३५) भीमकर्मा । (३६) मोधकर्माणः । (३७) यज्ञदानतपः कर्म । (३८) वैश्यकर्म । (३९) सर्वकर्मणाम् । (४०) सर्वकर्माणि । (४१) स्वकर्मणा । -( १ - ३ ) न कर्म (कर्मण: व्यावृत्तिः) अकर्म; तस्य अकर्मणः तस्मिन् अकर्माणि । (४-५ ) [विग्रहपद्धतिभ्यां 'इन्द्रिय' (२), 'उग्र' (१) शब्दौ क्रमेण दृष्टव्यौ]। ( ६ ) कर्मणां चोदना कर्मचोदना । ( ७-९ ) कर्मणा जातम् कर्मजम् ; तान् कर्मजान्; सा कर्मजा । (१०-११ ) कर्मणः फलम् कर्मफलम्; तस्मिन् कर्मफले। ( १२ ) कर्माणि बन्धनं यस्य सः कर्मबन्धनः । (१३) कर्मणा . उत्पादितः बन्धः कर्मवन्धः तम् कर्मबन्धम् । (१४) कर्मणा उत्पादितानि बन्धनानि कर्मबन्धनानि, तैः कर्मवन्धनैः । ( १५-१७ ) कर्मणा योगः, कर्म एव योगः वा, कर्मयोगः तम् कर्मयोगम् ; तेन कर्मयोगेन । (१८-१९ ) कर्मभिः येषां सङ्गः भवति ते कर्मसज्ञिनः; तेषाम् कर्मसङ्गिनाम्; तेषु कर्मसजिषु । ( २० ) कर्मभिः सङ्गः कर्मसङ्गः तेन कर्मसङ्गेन । ( २१ ) कर्मणः समुद्भवः यस्य सः कर्मसमुद्भवः | ( २२ ) कर्मणां सग्रहः (कर्मसु आवश्यकानि तत्त्वानि) कर्मः | ( २३ ) कर्मशब्देन यः संज्ञितः सः कर्मसंज्ञितः । ( २४ ) कर्मणां सन्न्यासः कर्मसन्न्यासः तस्मात् कर्म- सन्न्यासात् । ( २५ ) (विग्रहपद्धत्यै 'अनुबन्ध' शब्दो दृष्टव्यः) । शङ्करानुमतं विवरणं तु कर्म (धर्माधर्मलक्षणम् ) अनुवन्धः (पश्चाद्भावी उद्भूतिः) येषां तानि कर्मानुबन्धीनि । ( २६ २७ ) [विग्रहपद्धत्यै 'इन्द्रिय (१०-११) शब्दो क्रमेण दृष्टव्यौ] | (२८) क्षत्रस्य (स्वाभाविक) कर्म क्षत्रकर्म । (२९-३०) गुणकर्मणां (गुणाश्च कर्माणि च गुणकर्माणि, तेषां) विभागौ गुणकर्मविभागौ तयोः गुणकर्मविभागयोः; तत्पूर्वकम् गुणकर्मविभागशः । (३१) गुणप्रेरितानि कर्माणि गुणकर्माणि तेषु गुणकर्मसु । ( ३२ ) पुण्यानि कर्माणि येन कृतानि ते पुण्यकर्माणः; तेषां पुण्यकर्मणाम् । ( ३३ ) प्राणानां कर्माणि प्राणकर्माणि । ( ३४ ) ब्रह्मणः (ब्राह्मणजातेः) कर्म ब्रह्मकर्म । ( ३५ ) भीमानि कर्माणि यः कुबते सः भीमकर्मा । ( ३६ ) मोघानि (निरर्थकानि) 243