पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

232. 233. Bhagavadgita Word-Index Pt. II-A (a) ऋषभ - (१) पुरुषर्षभ । (२) भरतर्षभ - ( १ ) पुरुषेषु ऋषभः इव पुरुषर्षभः। संबो धने विसर्गलोपः । ( २ ) भरतेषु (भरतवंशीयेषु ) ऋषभः इव भरतर्षभः | संबोधने विसर्गलोपः । ऋषि – (१) देवर्षिः । (२) देवर्षीणाम् । (३) महर्षयः । (४) महर्षीणाम् । (५) राजर्षयः | - ( १ - २ ) देवेषु ऋषिः, देव इव ऋषिः वा, देवर्षिः; देवर्षीणाम् इति बहुवचनम्। ( ३-४ ) महान्तः ऋषयः महर्षयः; तेषां महर्षीणाम् । (५) राजसु ऋषयः, राजानः एव ऋषयः वा, राजर्षयः । 234. एक – (१) एकभक्तिः । (२) एकस्थम् । (३) एकाक्षरम् (४) एकाप्रम् । (५) एकामेण । (६) एकान्तम् । (७) एकांशेन । – ( १ ) एकस्मिन् एव भक्तिः यस्य सः एकभक्तिः । ( २ ) एकस्मिन् स्थितम् एकस्थम्। (३७) [विग्रहपद्धतिभ्यः 'अक्षर' (२), 'अग्र' (१-२), 'अन्त' (९), 'अंश', शब्दा: कमेण दृष्टव्याः] | 235. एकधा- अनेकधा-न एकथा (एकया रीत्या) | 236. एतद् एतद्योनीनि-एताः योनयः येषां तानि । 237. एचम्- (१) एवं रूपः । (२) एवंविधः – ( १ ) एवं (एतादृर्श) रूपं यस्य सः एवंरूपः । ( २ ) एवं (एतादृशा) विधा यस्य सः एवंविधः | ऐ 238- वेश्वर्य - (१) भोगैश्वर्यगतिम् । (२) भोगश्वर्यप्रसक्तानाम् । – ( १ ) भोगाः ऐश्वर्यं च यस्यां सा भोगेश्वर्यगतिः, ताम् भोगेश्वर्यगतिम् । ( २ ) भोगेषु ऐश्वर्ये च ये प्रसक्ताः ते भोगैश्वर्यप्रसक्ताः, तेषाम् भोगेश्वर्यप्रसक्तानाम् । ओ 239. ओजस्— उत्तमौजा :- [विग्रहपद्धत्यै 'उत्तम' (५) शब्दो दृष्टव्यः] | 240. ओम् - ओंकारः-'ओम्' इति रवः क्रियते यस्योच्चारणेन सः वर्णविशेषः । औ 241. औपश्य- आत्मौपम्यॆन - [विग्रहपद्धत्यै 'आत्मन् ' (१९) शब्दो दृष्टव्यः] 242. कटु – कटुम्ललवणात्युष्णतीक्ष्ण रूक्षविदाहिनः– ( विग्रहपद्धल्यै 'अत्युष्ण' शब्दो दृष्टव्यः) । 243. कपि- कपिध्वजः- कपिः (कपिचिन्हं ) ध्वजे यस्य सः | 244. 245. कमलपत्र – कमलपत्राक्ष - (विग्रहपद्धत्यै 'अक्ष' शब्दो दृष्टव्यः) । कमलासन– कमलासनस्थम् – कमलासने (कमलं एवं आसनं कमलासनं, तस्मिन्) स्थितः कमलासनस्थः, तम् । 246. कराल - (१) दंष्ट्राकरालानि । (२) बहुर्दष्ट्राकरालम् | - ( १ ) दंष्ट्राभिः करालानि दंष्ट्राकरालानि । ( २ ) बहुदंष्ट्राभिः (बहुभिः दंष्ट्राभिः) करालम् बहुदंष्ट्राकरालम् । 242