पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavad gita Word-Index Pt. II -A (a ) 201. ईश - (१) गुडाकेश । (२) गुडाकेश: । (३) गुडाकेशेन । (४) देवेश । (५) भूतेश | (६) वित्तेशः । (७) हृषीकेश । (८) हृषीकेशम् । (९) हृषीकेशः । – (१-३ ) गुडकायाः (निद्रायाः) ईशः गुडाकेशः, तेन गुडाकेशेन; संबोधने विसर्गलोपः। ( ४ ) देवानां ईशः देवेशः; संबोधने विसर्गलोपः। (५) भूतानां ईश: भूतेशः; संबोधने विसर्गलोपः । ( ६ ) वित्तस्य ईशः वित्तेशः (धनपतिः, कुबेरः) । ( ७-९ ) हृषीकाणां (इन्द्रियाणां) ईश: हृषीकेशः, तम् हृषीकेशम्; संबोधने विसर्गलोपः । 202. ईश्वर – (१) अनीश्वरम् । (२) ईश्वरभावः । ( ३ ) परमेश्वर । ( ४ ) परमेश्वरम् । (५) महेश्वरः । (६) योगेश्वर । (७) योगेश्वरः । (८) योगेश्वरात् । (९) विश्वेश्वर । - ( १ ) न ईश्वरः विद्यते अस्मिन् (विश्वे) इति अनीश्वरम् | ( २ ) ईश्वरस्य (संपत्तिवतः) भावः ईश्वरभावः। ( ३-४ ) परमः ईश्वरः परमेश्वरः, तम् परमेश्वरम्; संबोधने विसर्गलोपः । ( ५ ) महान् ईश्वरः महेश्वरः । ( ६-८ ) योगस्य, योगानां वा, ईश्वरः योगेश्वरः; तस्मात् योगेश्वरात्; संबोधने विसर्गलोपः। (९) विश्वस्य ईश्वरः • विश्वेश्वरः; संबोधने विसर्गलोपः । 203. 204. 205. 206. 207. 208. 209. उ उक्त – (१) यथोक्तम् । (२) विधानोक्ताः । (३) शास्त्रविधानोक्तम् । – ( १ ) यथा उक्त तथैव यथोक्तम् । ( २ ) विधानैः (विधिवाक्यैः) उक्ताः विधानोक्ताः । ( ३ ) शास्त्र- विधानेन तस्मिन् वा (शास्त्रे अन्तर्गतं विधानं तेन तस्मिन् वा) उक्तम् शास्त्र- विधानोक्तम् । उग्र – (१) उमकर्माण: । (२) उग्ररूपः । -( १ ) उप्राणि कर्माणि येषां ते उग्रकर्माणः । उमं रूपं यस्य सः उग्ररूपः । उच्छ्रित-अत्युच्छ्रितम् - [विग्रहपद्धत्यै 'अति' (९) शब्दो दृष्टव्यः] । उत्तम - (१) अनुत्तमम् । (२) अनुत्तमाम् । (३) उत्तमविदाम् । (४) उत्तमाः । (५) उत्तमौजाः । (६) द्विजोत्तम । (७) पुरषोत्तम । (८) पुरुषोत्तमम् । (९) पुरुषो- त्तमः । (१०) रथोत्तमम् । (१-२ ) न उत्तमतरं यस्मात् कश्चित् तत् अनुत्तमम्, न उत्तमतरा यस्मात्काचित् सा अनुत्तमा, ताम् अनुत्तमाम् । (३) उत्तमं (आत्म- तत्त्वं) ये विदन्ति ते उत्तमविदः, तेषाम् उत्तमविदाम्। ( ४ ) उत्तमैः अङ्गैः (शिरोभिः) उत्तमात्रैः । ( ५ ) उत्तमम् ओजः यस्य सः उत्तमौजाः । ( ६ ) द्विजेषु उत्तमः द्विजोत्तमः; संबोधने विसर्गलोपः । ( ७-९ ) पुरुषाणां, पुरुषेषु वा, उत्तमः पुरुषोत्तमः; तम् पुरुषोत्तमम् ; संबोधनॆ विसर्गलोपः । (१०) स्थानां रथेषु वा उत्तमः रथोत्तमः। उत्तर - (१) उत्तरायणम् । (२) चेलाजिनकुशोत्तरम् । (३) चैलाजिनकुशोत्तरम् ।- ( १ ) [विग्रहपद्धत्यै 'अयन' (१) शब्दो दृष्टव्यः ] | ( २ - ३ ) [विग्रहपद्धतिभ्यां 'अजिन' (१ २) शब्दौ दृष्टव्यो]। उत्थित-निद्रालस्थप्रमादोत्थम् - [विग्रहपद्धत्यै 'आलस्य' (१) शब्दो दृष्टव्यः]। उत्सन्न-उत्सनकुलधर्माणाम् – उत्सभाः कुलधर्माः (कुलेषु परम्परागताः ये धर्माः ते) येषां ते उत्सन्नकुलधर्माः, तेषाम् । 210. उत्सादन- उत्सादनार्थम् - [विग्रहपद्धत्यै 'अर्थ' (११) शब्दो दृष्टव्यः ] | 240