पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

157. आदित्य – (१) आदित्यगतम् । (२) आदित्यवर्णम् । (३) मद्रादित्याः ।– ( १ ) आदित्ये गतम् (तदन्तः स्थितम् ) आदित्यगतम् । ( २ ) आदित्यस्य इव वर्णः यस्य सः आदित्यवर्णः तम् आदित्यवर्णम् । (३) (एकादश) रुद्राथ (द्वादश) आदित्याश्च कदादित्याः । 158. आदित्व – अनादित्वात्-न आदित्वम् अनादित्वम् तस्मात् । 159. आदिमत्- अनादिमत्-आदिः अस्य विद्यते इति आदिमत्; न आदिमत् अनादिमत् । 160. आदिमध्यान्त – अनादिमध्यान्तम् आदिव मध्यं च अन्तश्र आदिमध्यान्ताः, ते यस्य विद्यन्ते सः आदिमध्यान्तः तम् आदिमध्यान्तम् ; न आदिमध्यान्तम् अनादि- मध्यान्तम् । 161. आनन-व्यात्ताननम्-व्यात्तं आननं यस्य सः व्यात्ताननः तम् । 162. आमय - अनामयम्-न आमयः विद्यते यस्मिन् तत् । 163. आयास – बहुलायासम् बहुल: आयासः बहुलायासः, तत्पूर्वकम् । आयुसू- अघायु:- [विग्रहपद्धत्ये 'अघ' (१) शब्दो दृष्टव्यः] आयुःसत्वबलारोग्यसुखप्रीति - आयुः सत्त्वचलारोग्यसुखप्रीतिविवर्धनाः- आयुः- सत्त्ववलारोग्यप्रीतिन् (आयुश्च सत्त्वं च बलं च आरोग्यं च प्रीतिश्च आयुःसत्त्व... प्रीतयः, ताः) विवर्धयन्ति इति । आ (रम्य) (१) आब्रह्मभवनात् । (२) आब्रह्मभुवनात् । - (१-२ ) ब्रह्मभवनं, भुवनं वा आरभ्य। 164. 165. Secondary Word-Units ( ६-७ ) आदिः (मथमं आविर्भूतः) देवः आदिदेवः तम् आदिदेवम् । (८) [विग्रहपद्धत्यै 'अन्त' (८) शब्दो दृष्टव्यः ] | ( ९ ) कल्पस्य आदिः कल्पादिः, तस्मिन् कल्पादौ । (१० ) जनकः आदिः येषां ते जनकादयः । (११) पुत्राः दाराः गृहाणि च आदौ येषां तानि पुत्रदारगृहादीनि तेषु पुत्रदारगृहादिषु । (१२) भूतानां ( सत्त्वानां) आदिः भूतादिः तम् भूतादिम् । (१३) शब्दः आदिः, आदौ वा, येषां से शब्दादयः, तान् शब्दादीन् । ( १४ ) श्रोत्रं आदिः, आदौ वा, येषां तानि श्रोत्रादीनि । 166. 167 168. 169. आरम्भ – (१) अनारम्भात् । (२) सर्वारम्भाः / – ( १ ) न आरम्भः (तस्य अभाव:) अनारम्भः तस्मात् अनारम्भात् । (२) सर्व आरम्भाः सर्वारम्भाः । आराम--- (१) अन्तरारामः । (२) इन्द्रियारामः | – ( १ ) [विग्रहपद्धये 'अन्तर्' (२) शब्दो दृष्टव्यः] । ( २ ) इन्द्रियेषु यः आरामं प्राप्नोति सः इन्द्रियारामः । आरूढ (१) यन्त्रारूढानि । (२) योगारूढस्य । (३) योगारूढः - ( १ ) यन्त्राणि (शरीराणि) आरूढानि (अधिष्ठितानि इव) यन्त्रारूढानि (इव सर्वभूतान्स्वमायया भ्रामयन्तिष्ठति हृद्देशे ईश्वरः) | ( २ - ३ ) योगं आरूढः (तस्य पारंगतः तस्मिन् सिद्धि प्राप्तः वा) योगारूढः, तस्य योगारूढस्य | 170 आर्यजुष्ट – अनार्यजुष्टम्न आर्यजुष्टम् (आर्यस्य जुष्टम् ) | 237