पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

51. 52. 53. Secondary Word-Units सः अनेकषक्त्रनयनः तम् अनेकववत्रनयनम् । ( ४ ) अनेकानि ( विग्रहः पूर्ववत् ) वर्णानि यस्य (शरीरस्य) सः अनेकवर्णः तम् अनेकवर्णम् । (५) (विग्रहपद्धत्यै 'अद्भुतदर्शन' शब्दो दृष्टव्यः) । ( ६ ) अनेकानि ( विग्रहः प्रथमवत् ) उद्यता- युधानि (उद्यतानि आयुधानि ) यस्य सः दिव्यानेकोद्यतायुधः तम् दिव्यानेकोद्य- तायुधम् । अनेकचित्त — अनेक चित्तविभ्रान्ताः- अनेकैः (न एकम्, अनेकम् तस्य बहूनि अनेकानि, तैः) चित्तैः (चित्तवृत्तिभिः, कल्पनाभिः वा) विभ्रान्ताः | अनेकजन्म–अनेकज मसंसिद्धः – अनेकेषां (न एकम् अनेकम् तस्य बहूनि अनेकानि, तेषां) जन्मनां अन्ते यः संसिद्धिं आप्नोति सः । 2 अन्त – (१) अत्यन्तम् । (२) अनन्त । (३) अनन्तम् । ( ४ ) अनन्तः । (५) अनन्ताः | (६) अन्तकाले। (७) अन्तगतम् । ( 4 ) आद्यन्तवन्तः । ( १ ) एकान्तम् । (१०) कृतान्ते। (११) दुःखान्तम् । (१२) मल्यान्ताम् । (१३) युगसहस्रान्ताम् - ( १ ) ( विग्रहपद्धत्यै 'अति' (६) शब्दो दृष्टव्यः) । ( २-५ ) न अन्तः विद्यते यस्य, सः अनन्तः, तत् अनन्तम्; संबोधने प्रथमात् विसर्गलोपः तदेव प्रथमाबहुवचने अनन्ताः । ( ६ ) अन्तस्य (मृत्योः) कालः अन्तकालः तस्मिन् अन्तकाले । ( ५ ) अन्तं गतम् अन्तगतम्। ( ८ ) आदिः अन्तः च येषां भवतः ते आद्यन्तवन्तः । ( ९ ) एकः एव अन्तः यस्य तत् एकान्तम् । (१०) कृतस्य (कर्मण:) अन्तः यस्य परिशीलनातः भवति तत् (सायम्) कृतान्तम् तस्मिन् कृतान्ते । ( ११ ) दुःखानां अन्तं दुःखान्तम् । (१२) प्रलये यस्याः अन्तः आगच्छति सा मलयान्ता, ताम् १३) युगसहस्त्रैः ( युगानां सहस्रैः) यस्याः अन्तः आगच्छति सा प्रलयान्ताम् । युगसहस्त्रान्ता, ताम् युगसहस्त्रान्ताम् । 54. अन्तर – ( १ ) अनन्तरम् । ( २ ) दशनान्तरेषु / – ( १ ) अन्तरं विना अनन्तरम् | ( २ ) दशनानां अन्तराणि दशनान्तराणि, तेषु दशनान्तरेषु । 55. अन्तरात्मन् प्रव्यथितान्तरात्मा-प्रव्यथितः अन्तरात्मा [अन्तः (हृदये) यः स्थितः स आत्मा ) यस्य सः | 56. अन्तर् – (१) अन्तरात्मना । (२) अन्तरारामः । (३) अन्तर्ज्योतिः । (४) अन्तःशरीर- स्थम् । (५) अन्तःसुखः । (६) अन्तःस्थानि | 19 अन्तः (हृदये) यः स्थितः स आत्मा अन्तरात्मा, तेन अन्तरात्मना । ( २ ) अन्तः (हृदये) यः आरामं (विश्रान्ति) अनुभवति सः अन्तरारामः । ( ३ ) अन्तः ( हृदये) यस्य ज्योतिः (प्रकाशः) प्रकटिता आविर्भूता वा सः अन्तज्योतिः । ( ४ ) शरीरस्य अन्तर्यः स्थितः सः अन्तःशरीरस्थः, तम् अन्तः शरीरस्थम् । ( ५ ) अन्तः (हृदये) यः सुखं अनुभवति सः अन्तः सुखः । ( ६ ) अन्तः (हृदये) स्थितानि अन्तःस्थानि । 57. अझ अनसम्भवः – अन्नस्य सम्भवः (उत्पत्तिः) । 58. अन्य – ( १ ) अनन्यया । (२) अनन्येन । (३) अनन्याः । (४) अन्यदेवताः । (५) त्वदन्यः । (६) त्वदन्येन । – ( १ - ३ ) न अन्यः लक्ष्यः विद्यते यस्याः सा अनन्या, तया 229