पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20. 21. 22. 23. 24. 25. 26. 27. 28. 29. 30. 31. 32. 33. 34. 35. Secondary Word-Units अतीत - (१) गुणातीतः । (२) द्वन्द्वातीतः ।– ( १ ) गुणानतीतः (अतिक्रम्य ईतः) गुणातीतः । ( २ ) द्वन्द्वान् ( रागदोषौ, सुखदुःखे इत्यादीन् ) अतीतः द्वन्द्वातीतः । अत्या- दुरत्यया-दुःखेन अत्या दुरत्या, तथा । अत्युष्ण– कट्वम्ललवणात्युष्णतीक्ष्ण रूक्ष विदाहिनः । –कटवः, अम्लाः, लवणाः, अत्युष्णाः, तीक्ष्णाः, रूक्षाः, विदाहिनश्च (आहाराः) । अद्भुत – अत्यद्भुतम् - [विग्रहपद्धत्यै 'अति' (५) शब्दो दृष्टव्यः] | अद्भुतदर्शन – अनेकाद्भुतदर्शनम् – अनेकानि अद्भुतदर्शनानि (अद्भुतानि दर्शनानि) यस्य सः अनेकाद्भुतदर्शनः तम् । अधम - (१) नराधमान् । (२) नराधमाः । - (१-२) नरेषु नराणां वा अधमाः नराधमाः, तान् नरार्धमान् । अधर्म-अधर्माभिभवात् - अधर्मस्य (न धर्मः अधर्म: तस्य ) अभिभवः अधर्माभिभवः, तस्मात् । अधस् – अधःशाखम्-अधः प्रसृताः यस्य शाखाः सः अधः शाखः, तम् । अधि - (१) अधिदैवतम् । (२) अधिदैवम्। (३) अधिभूतम् । (४) अधियज्ञः | (५) अध्यात्मम् । – (१ - २) देवताम् देवम् वा अधिकृत्य तिष्ठतीति अधिदैवतम् अधिदैवम् वा । ( ३ ) भूतानि अधिकृत्य तिष्ठतीति अधिभूतम् । ( ४ ) यशान् अधिकृत्य तिष्ठतीति अधियज्ञः । ( ५ ) आत्मनि इति, आत्मानं ( देहं ) अधिकृत्य तिष्ठतांति वा अध्यात्मम् । अधिदैव साधिभूताधिदैवम्-अधिभूतेन (भूतानि अधिकृत्य तिष्ठतांति अधिभूतम् तेन ) अधिदैवेन (देवमधिकृत्य तिष्ठतीति अधिदैवम् तेन) च सहितः साधिभूताधिदेवः; तम् । अधिप - (१) जनाधिपाः । (२) नराधिपम् । – ( १ ) जनानां अधिपाः (अधिपातीति अधिपः; अधिपाः इति बहुवचनम् ) जनाधिपाः । (२) नराणां अधिपः (अधि पातीति) नराधिपः, तं नराधिपम् । अधिभूत - साधिभूताधिदैवम्- (विग्रहपद्धत्यै 'अधिदैव' शब्दो दृष्टव्यः) । अधियज्ञ- साधियज्ञम् अधियज्ञेन (यज्ञान् अधिकृत्य तिष्ठतांति अधियज्ञः, तेन) सहितः साधियज्ञः तम् | अध्यात्म - (१) अध्यात्मचेतसा । (२) अध्यात्मनित्याः । (३) अध्यात्मविद्या (४) अध्यात्मसंज्ञितम् । – ( १ ) अध्यात्म (आत्मनि इति) चेतस् अध्यात्मचेतस्, तेन अध्यात्मचेतसा । ( २ ) अध्यात्म (आत्मनि) नित्याः (अहोनिशं लम्नाः) अध्यात्म- नित्याः । ( ३ ) आत्मनि तात्पर्य यस्याः सा विद्या अध्यात्मविद्या । ( ४ ) 'अध्यात्म' इति संज्ञा यस्य भवति तत् अध्यात्मसंज्ञितम् तम् अध्यात्मसंज्ञितम् । अध्यात्मज्ञान - अध्यात्मज्ञाननित्यत्वम् ।-अध्यात्मज्ञानस्य ( आत्मविषयकं ज्ञानम् अध्यात्मज्ञानम् तस्य ) नित्यत्वम् । · अनन्त - (१) अनन्तबाहुम् । (२) अनन्तरूप । (३) अनन्तरूपम् । (४) अनन्तविजयम् । (५) अनन्तवीर्य। (६) अनन्तवीर्यम् | - ( १ ) अनन्ताः (न विद्यते अन्तः येषां ते ) 227