पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पूर्व अथ कारकांशे द्वादशभावफलमाह |

कारकांशे व्ययस्थाने उच्चस्थेऽपि शुभग्रह सद्गतिजायते तस्य

शुभलोकमवाप्नुयात् ॥ ६६ । कारकोशे व्यये केलो शुभस्खेटेन क्षिते ॥ तदापि जायते मुक्तिः सायुज्यपदमाप्नुयात् ॥ ६७ ॥ मम थ धनुषि वापि कारकांशे व्यये शिखी शुभग्रहेण संदृष्ट कैवल्यप दमाप्नुयात् ॥ ६८ ॥ केवलेपि व्यये केतुः पापग्रहृयुतेक्षितः ॥ न मुक्तिर्जायते तस्य शुभलोकं न पश्यति ॥ ६९ ॥ रविणा संयुते केतो कारकांशे व्ययस्थिते ॥ गौर्या भक्तिर्भवेत्तस्य शाक्तिको जायतेनरः ॥ ७० रविभक्तिर्भवेत्तस्य निर्विशंकंद्विजोत्तम ॥ चंद्रेण संवृत्त केतो कारकांशे व्ययस्थिते ॥ ७१ ॥ शुक्रेण संयुते केतौ कारकांशे व्यय- स्थिते ॥ समुद्रतनयाभक्तिर्जायतेऽसौ समृद्धिमान् ॥ ७२ ॥ कुजेन स्कंदभक्तोवा जायते द्विजसत्तम ॥ वैष्णवो बुधशौरिभ्यां गुरुवा शिवभक्तिमान् ॥ ७३ ॥ राहुणा तामसी दुर्गा भूतप्रेतादिसेवकृत। हेरंबभक्तः शिखिना स्कंदभक्तोथ वा भवेत् ॥ ७४ ॥ कारकांशे व्यये शौरिः पापराशौ यदा भवेत् ॥ तदैव क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥७५ ॥ पापक्षेपि व्यये शुक्रस्तदापि क्षुद्रसेवकः ॥ का- रकान्यूनभागोहि अमात्यो जायते ग्रहः ॥ ७६ ॥ कारके च फलं ब्रूयादमात्येऽनुचरो भवेत् ॥ आदित्येंदुधरापुत्राणनीयोऽष्टमो ग्रहः ॥ ७७ ॥ तस्मिन् महेप्येव फलं वक्तव्यं नात्र संशयः ॥ अ- मात्याद्वादशेराशौ पापर्क्षे पापसंयुते ॥ तथापि क्षुद्रदेवस्य भक्ति- र्भवति निश्चितम् ॥ ७८॥ अमात्यो वर्तते तत्र तन्वादों द्विजसत्त- म ॥ सूर्यादिग्रहसंयुक्ते तत्फलंपूर्ववहिज ॥ ७९ ॥ अथ कारकांशे त्रिकोणफळमाह । कारकांशे त्रिकोणस्थे खेटे व सांन्त्रिको भवेत या पेन क्षुद्रदेवस्व