पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे परदशाफलकनाम्यायः ५० भागके ॥ कर्कटे हार्थनाशश्व सिंहे राजविरोधिता ॥ ५२ ॥ मिथुने भूमिलाभं च वृषभं चार्थलाभकृत् ॥ चापे तु धनलाभ: स्वार- श्विकस्य नवांशके ॥ ५३॥ मेषेतु वनलाभः स्यादृषे भूमितिक- ईनम् ॥ मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिहिकृत् ॥५४॥ सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥ तौलिक अर्थव्यमः स्याट्टश्चिके रोगमाप्नुयात् ॥ ५५ ॥ चाप तु सुतवृद्धि: स्याचापस्य नवमांशके || मकरे पुत्रलाभः स्यात्कुंभे धान्यविवर्धनम् ॥ ५६ ॥ भीने कल्याणमाप्नोति वृश्चिके मृगबाधिता ॥ तौलिक त्वर्थलाभं च कन्यायां शत्रुवर्धनम् ॥ ५७ ॥ शशिभे श्रियमाप्नोति सिंहे तु मृगबाधिता ॥ मिथुने वृक्षवाधा च मृगस्य नवभागके ।। ५८ ॥ वृषभे त्वर्थलामं च मेषस्य त्वक्षिरोगकृत् ॥ मिथुने दीर्घयात्रा स्वात्कुंभे स्वस्य विवर्द्धनम् ॥ ५९॥ मकरें सर्वसिद्धिः स्वाञ्चाये शत्रुविवर्धनम् | मेषे सौख्यविनाशश्च वृषभं मरणं भवेत् ||१६०॥ युग्मे कल्याणमाप्रांति कुंभस्य नवमांशके ॥ कर्कटं धनवृद्धिःस्या- सिंह तु राजपूजनम् ॥ ६१ ॥ कन्यायामर्थलाभस्तु तुलाया ला- भमाप्नुयात् ॥ वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् ॥ ६२ ॥ मृगे जायाविरोधं च कुंभे जलविरोधतः ॥ मीनें तु सर्वसौभाग्यं मीनस्य नवभागके ॥ ६३ || दशावंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ॥ क्रूरग्रहदशाकाले शांतिं कुर्याद्विचक्षणः ॥ ६४ ॥ इति श्रीबृहत्पाराशरहोरापूर्व खंडसारांशे कालचक्रदशाफलकथनं नाम कोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥ अथ चरदशाफलमाइ अघुना संप्रवक्ष्यामि चरपर्यादशाफलम् ॥ यस्य विज्ञानमा त्रेण देवो जायते द्विज ॥ १ ॥ नराणां सर्वमायुध्व सुखदुःख