पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराशरहोरासारांशः । अथ नवांशफलमाह । मेषे तु रत्नपीडा च दृषभे धान्यवर्द्धनम् ॥ मिथुने ज्ञानसंप- स्रश्चंद्रे धनपतिर्भवेत् ॥ ३७॥ सूर्यर्क्ष शत्रुबाधा च कन्यास्त्रीणां च नाशनम् । तौलिके राजमंत्रित्वं वृश्चिके मरणं भवेत् ॥ ३८ ॥ अर्थलाभं भवेद्धन्वे मेषस्य नवभागके ॥ मकरे पापकर्माणि कुंभे वाणिज्यमेव च ॥ ३९ ॥ मीने सर्वार्थसिद्धिं च वृश्चिकेष्वमितो भयम् ॥ तौलिके राजपूज्यं च कन्यायां शत्रुवर्धनम् ॥१४० ॥ शशिभेदारसंबांधा सिंहे च त्वक्षिरोगकृत् ॥ मिथुने वृक्षबाधा स्याहृषभे च नवांशके ॥ ४१ ॥ वृषभे अर्थलाभं च मेषे तु ज्वर- रोगकृत् ॥ मिथुने मातुलप्रीतिः कुंभे शत्रुप्रवर्द्धनम् ॥ ४२ ॥ मृगे चौरस्य संबाधा धनुषि शस्त्रवर्धनम् ॥ मेषं तु शस्त्रसंबंधो वृषभे कलहप्रियः ॥ ४३ ॥ मिथुने सुखभाप्नोति मिथुनस्य नवांशके ॥ कर्कटे संकटप्राप्तिः सिंहे राजप्रकोषकृत् ॥ ४४ ॥ कन्यायां भ्रातृ- पूजा च तौलिके प्रियकृन्नरः ॥ तृश्चिके पितृवाधा स्यात्कर्कटस्य नवांशके ॥ ४५ ॥ वृश्चिके कलहं पीडा तौलिके च फलाधिकम् || कन्यायामतिलाभं च शशांके मृगबाधिकाम् ॥ ४६ ।। सिंहे च पुत्रलाभं च मिथुने शत्रुवर्द्धनम् ॥ मीने तु दीर्घयात्रा स्यात्सिंह- स्य नवभागके ॥ ४७ ॥ कुंभे तु धनलाभं च मकरे द्रव्यलाभक- त् ॥ धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥४८॥ वृषभे पुत्र- वृद्धि: स्यान्मिथुने शत्रुवर्द्धनम् ॥ शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्धनम् ॥ ४९ ॥ कन्यायां पुत्रवृद्धिः स्यात्कन्यायां नव- मांशके ॥ तुलायामर्थलाभं च वृश्चिके भ्रातृवर्द्धनम् ॥ १५० ॥ चापे च तातसौख्यं च मृगे मादविरोधिता ॥ अलौ जायाविरोध चतुले च जलबाधता ॥५१॥ कन्यावृद्धिकरं विधातुलाया नव: