पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ रविभुक्तिमासाः ४ दिन ६ तस्य फलम् • केतोरतर्गते सूर्ये स्त्रोचे स्वक्षेत्रगेपि वा ॥ केंद्रत्रिकोणलाभे वा शुभयोगनिरीक्षिते ॥ १६ ॥ धनधान्यादिलाभय राजानुत्र- हवैभवम् || अनेकशुभकार्याणि इष्टसिद्धिः सुखावहा ॥ १७ ॥ षडाष्टव्ययराशिस्थे पापग्रहसमन्विते ॥ तद्भुकों राजनीति पितृमातृवियोगकृत् ॥ १८ ॥ विदेशगमनं चैव चौराहिविषपी- डनम् ॥ राजमित्र विरोधश्च राजदंडादनक्षयः ॥ १९ ॥ शोकरो- गंभयं चैव उष्णाधित्र्यं ज्वरं भवेत् ॥ दायंशात्केंद्रकोणे वा लाभे वा धनसंस्थिते ॥ २० ॥ देहसौख्यं चार्थलाभं पुत्रलाभं मनोह- ढम् ॥ यातुः कार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपं युतम् ॥ २१ ॥ दायेशाकेंद्ररिःफे वा षष्ठे वा पापसंयुते ॥ अन्नविघ्नो मनोभीति- र्धनधान्यपशुक्षयम् ॥ २२ ॥ आदिमध्ये महान्केशा अंते सौख्य चिनिर्दिशेत् ॥ द्वितीय सप्तमाधीशे अपमृत्युर्भविष्यति ॥ २३ ॥ दर्शशांतिं प्रकुर्वीत स्वर्णधेनुं प्रदापयेत् ॥ २४ ॥ अथ चंद्रमुक्तिमासाः ७ दिन • तस्य फलम् । केतोरंतर्गते चंद्रे स्वोच्चे स्वक्षेत्रराशिगे ॥ केंद्रत्रिकोणलाभे वा घंने सुखसमन्विते ॥ २५ ॥ राजप्रीतिर्मनोत्साहं कल्याण च महत्सुखम् ॥ महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ २६ ॥ भोजनांबरपश्वादिव्यवसायात्फलाधिकम् ॥ अश्ववाहनलाभश्च वस्त्राभरणभूषणम् ॥२७॥ देवालयतडागादिपुण्यधर्मादिसंग्रहम् ॥ पुत्रदारादिसौख्यं च पूर्णचंद्रस्तथैव च ॥ २८ ॥ नीचे वा क्षीण चंद्रे षष्ठाष्टव्ययराशिगे ॥ आत्मसौख्यं मनस्ताप कार्यविघ्नं म कुम ॥ २९ ॥ पितृमातृवियोग व देहजाड्यं मनोव्यथा ॥ व्यवसायात्फलं नष्ट गोमहिष्यादिनाशकृतः ॥ ३० ॥ दावेशा-