पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८६) बृहत्पाराशरहोरासारांशः। नुग्रहवैभवम् ॥ ३४ ॥ षष्टाष्ट्रमव्यये मंदे नीचे वा वनगेऽपि वा ॥ तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥ ३५ ॥ अनेकजन- त्रासलं शस्त्रपीडा भविष्यति ॥ दायेशाकेंद्रराशिस्थे त्रिकोणे च- लगेपि वा ॥ ३६ ॥ क्वचित्सौख्यं धनाप्तिश्व दारपुत्रविरोधकृत् ॥ द्वितीयद्यूनरंध्रस्थे देहबावा भविष्यति ॥ ३७ ॥ तद्दोष परिहारार्थ मृत्युंजयजपं चरेत् ॥ कृष्णां गां महिषीं दयाहानेनारोग्यमा- दिशेत् ॥ ३८ ॥ अथ बुधभुक्तिमास १७ तस्य फलम् । चंद्रस्यांतर्गते सौम्ये केंद्रलाभत्रिकोणगे | स्वर्क्षे नवशिके सौम्ये तुंगे वा बलसंयुते ॥ ३९ ॥ धनागमं राजमानं प्रियवस्त्रा- दि लाभकृत् ॥ विद्याविनोदसगोष्ठीज्ञानवृद्धिः सुखावहा ॥ ४० ॥ संतान प्राप्ति संतोषं वाणिज्याद्धनलाभवत् ॥ वाहनच्छत्रसंयुक्तं नानालंकारभूषितम् ॥ ४१ ॥ दायेशा केंद्र कोणे वा लाभे वा धन- गेऽपि वा । विवाह यज्ञदीक्षां च दानधर्मशुभादिकम् ॥ ४२ ॥ राजप्रीतिकरं चैव विद्वज्जनसमागमम् ॥ मुक्तामणिप्रकालानि वाहनांवरभूषणम् ॥ ४३ ॥ आरोग्यप्रीतिसौख्यं च सोमपाना- दिकं सुखम् ॥ दायेशाद्रिपुरंध्रस्थे व्यये वा नीचगेपि वा ॥ ४४ ॥ तद्भुक्तिर्देहबाबा च कृषिगोभूमिनाशनम् ॥ कारागृहप्रवेश च दारपुत्रादि पौडनम् ॥ ४५ ॥ द्वितीयघूननाथै तु ज्वरपीड़ा महद्ध- यम ॥ छागदानं प्रकुर्वीत विष्णुसहस्त्रकं जपेत् ॥ ४६ ॥ अथ केतुभुक्तिमासाः ७ तस्य फलम् । चंद्रस्यांतर्गते केतौ केंद्रलाभत्रिकोणगे ॥ दुश्चिक्ये बलसंयुक्ते चनलाभ महत्सुखम् ॥ ४७ ॥ पुत्रदारादिसौख्य व विघ्नकर्म क रोति च ॥ भुयादो धनहानिः स्यान्मव्यगे सुखमाप्नुयात् ॥४८॥