पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१० ) बृहत्पाराशरहोरासारांशः । दगुणा च विशेषतः ॥ ७७ ॥ बली सदापापरतो नरः स्यादसत्य- वादी नितरां प्रगल्भः ॥ धनेन पूर्णो निजधर्महीनो घरासुत- दुषवेशनस्थः ॥ ७८ ॥ यदा भूमिसुते लग्ने नेत्रपाणिमुपागते # दरिद्रता सदा पुंसामन्यभे नगरेशता ॥ ७९ ॥ प्रकाशो गुण- स्यापि वासः प्रकाशे घराघीशभर्तुः सदा मानवृद्धिः ॥ सुते भूसु- ते पुत्रकांतावियोगो भवेद्राहुणा दारुणो वा निपातः ।। ८० ॥ ग- मनागमने कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः ॥ बहुद्रुक कण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥ ८१ ॥ आगमने गुणशाली मणिमाली करालकरवाली॥ गजगंता रिपुहन्ता परि- जनसंतापहारको भौमे ॥ ८२ ॥ तुंगे युद्धकलाकलापकुशलो धर्म- घ्वजो वित्तपः कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् । अंतेऽपत्यकलत्रमित्ररहितः प्रोकेंतरस्थानगे वश्यं राजसभाबुधो बहुधनी मानी च ढ़ानी जनः ॥ ८३ ॥ आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः । कर्णमूलगुरुगूलरोंगवानेव का तरमतिः कुसंगमी ॥ ८४ ॥ भोजने मिष्टभोजी च जनने सबले कुजे ॥ नीचकर्म करो नित्यं मनुजो मानवर्जितः ॥ ८५ ॥ नृत्य- लिप्सागते भूसुते जन्मनामिंदिराराशिरायाति भूमीपतेः ॥ स्व- र्णरत्नप्रवालैः सदामंडितो वासशाला नराणां भवेत्सदा ॥ ८६ ॥ कौतुकी भवति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः ॥ उच्चगे नृ- -पतिंगेहमंडितः पूजितो गुणवरैर्गुणाकरैः ॥ ८७ ॥ निद्रावस्थां गते भौमे कोधी घीधनवर्जितः ॥ धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥ ८८ ॥ अथ बुधफलम् । अधातुरो भवेदंग खंजो गुंजानिभेक्षणः ॥ अन्यभे लंपटो