पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०८ ) बृहत्पाराशरहोरासारांखः । खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥ ५४ ॥ नरः सदान- दधरो विवेकी परोपकारी बलवित्तयुक्तः ॥ महासुखी राजकृपाभि- मानी दिवाधिनाथो यदि नेत्रपाणौ ॥ ५५ ॥ उदारचित्त: परिपूर्ण- वित्तः सभासु वक्ता बहुपुण्यकर्ता ॥ महाबली सुंदररूपशाली प्रकाशने जन्मनि पद्मिनीशे ॥ ५६ ॥ प्रवासशाली किल दुःखमा- ली सदालसा धीधनवर्जितश्च ॥ भयातुरः कोपपरो विशेषाद्दिवा- विनार्थ गमने मनुष्यः ॥ ५७ ॥ परदाररतो जनतारहितो बहु- धागमने गमनाभिरुचिः ॥ कृपणः खस्ताकुशलो मलिनो दिन- साधिपती मनुजः कुमतिः ॥ ५८ ॥ सभागते हिते नरः परोपका- रतत्परः सदार्थरत्नपूरितो दिवाकरे गुणाकरः ॥ वसुंबरानवांबरा- लयान्वितो महावली विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥ ॥ ५९ ॥ क्षोभितो रिपुगणैः सदा नरश्चंचलः खलमतिः ऋ- शस्तथा ॥ धर्मकर्म रहितो मदोहतश्यागमे दिनपतौ यदा तदा ॥ ।। ६० ।। सदांगसंधिवेदनापरांगनाधनक्षयो बलक्ष्यः पढ़े पदे यदा तदाहि भोजने ॥ असत्यता शिरोव्यथा तथा वृ थान्नभोजनं रवावसत्कथारतिः कुमार्गगामिनी मतिः ॥ ६१ ॥ विज्ञलाकैः सदा मंडितः पंडितः काव्यविद्यानवद्यप्रलापान्वितः॥ राज्यपूज्यों घरामंडले सर्वदा नृत्यालिप्सागते पद्मिनीनायके || ॥ ४२ ॥ सर्वदानंदधर्ता जनो ज्ञानवान्यज्ञकर्ता धराधीशसझ- स्थितः ॥ पद्मबंधावरातभयं चाननः काव्यविद्याप्रलापी मुद्रा को- तुके ॥ ६३ ॥ निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयु- ग्मोरो विदेशे वसतिर्जनस्य कलत्रहानिः कति वार्थनाशः॥ ६४॥ अथ चंद्रफलम् । अनु:काले झपानाथ शयनं चेडुपागते ॥ मानी शीतप्रधानी