पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे ग्रहाद्यवस्थापकनाध्यायः ३४ तोः भवेत् ॥ रविमंदकुजैर्युक्तो लजितो ग्रह एव च ॥ २५ ॥ तुंग- स्थानगतो वापि त्रिकोणेपि भवेत्पुनः ॥ गर्वितः सोपि गढ़ितो निर्विशंकं द्विजोत्तम ॥ २६ ॥ शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्य- दि ॥ क्षुधितः स च विज्ञेयः शनियुक्तां यथा तथा ॥ २७ ॥ जलरा- शौ स्थितः खेटः शत्रुणा चावलोकितः।। शुभग्रहा न पश्यंति ऋषि- तः स उदाहृतः ॥२८॥ मित्रगेही मित्रयुक्तों मित्रेण चावलोकितः ॥ गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ २९ ॥ रविणा स- हितो यश्च पापाः पश्यंति सर्वथा ॥ क्षोभितं तं विज्ञानीयाच्छ त्रुणा यदि वीक्षितः ॥ ३० ॥ येषु येषु च भावेषु प्रहास्तिष्ठति सर्वथा ॥ क्षुधितः क्षोभितो वापि स नरो दुःखभाजनः ॥ ३३ ॥ एवं क्रमेण बोद्धव्यं सर्वभावेषु पंडितैः ॥ बलाबलविचारेण व व्यः फलनिर्णयः ॥ ३२ ॥ अन्योन्यं च मुदा युक्तं फलं मिश्रं में- देत्पुनः ॥ चलहीने तदा हानिः सबले च महाफलम् ॥ ३३ ॥ क- र्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा ॥ अतिः क्षभितो वापिस नरो दुःखभाजनः ॥ ३४ ॥ सुतस्थाने भवेद्यस्य लज्जि- तो ग्रह एव च ॥ सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥३५॥ क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् ॥ वियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ ३६ ॥ नवालयारामसुखं नृपत्वं कला- पटुत्वं विदधाति पुंसाम् ॥ सदार्थलाभं व्यवहारवृद्धिं फलं बिशे- पादिह गर्वितस्य ॥ ३७ ॥ भवति मुदितयोगे बासशालाविशा- ला विमलवसनभूषाभूमियोषासु सौख्यम् ॥ स्वजनजनवियसो भूमिपागारवासी रिवुनिवहविनाशो बुद्धिविद्याविकाशः ॥ ३८ ॥ दिशति लज्जिनभाववशाद्रतिर्विंगतराममतिर्विमतिक्षयम् । सुत गद्दागमनं गमनं वृथा कलिकथाभित्रचें न रुचि शुभे ॥ ३९ ॥