पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः ते यदि ॥ भौमेन गुरुणा युक्तो दृष्टिर्वास्याद्युतो धनी ॥ ७॥ चं ब्रक्षेत्रगते चंद्रे तस्मिंश्चंद्रयुते यदि ॥ जीवभौमयुते यस्तु दृष्टे जातो धनी भवेत् ॥ ८ ॥ भौमक्षेत्रगते लग्ने तस्मिन्नोमयुते य दि ॥ सोमशुकार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥ ९ ॥ गुरुक्षेत्रग- ते लग्ने तस्मिन्गुरुयुतं तदि ॥ सौम्यभौमयुते दृष्टे जातो यस्तु व- नीश्वरः ॥ १० ॥ बुधक्षेत्रयुते तस्मिन् दृष्टे सौम्ययुतो यदि ॥ शनिशुऋयुते दृष्टे जातो यस्तु धनी नरः ॥ ११ ॥ भृगुक्षेत्रं गते लग्ने तस्मिन भृगुयुते यदि ॥ शनिसौम्ययुते दृष्टे जातो यस्तु घ नी नरः ॥ १२ ॥ ये ये ग्रहा धर्मप ९ बुद्धिपाभ्यां युक्ताश्च दृष्टाश्च सुखप्रदास्ते ॥ रंध्रेश्वरादिव्ययपैर्युताः स्युः शोकप्रदा मारकनाय- कैश्च ॥ १३ ॥ क्रूरसौम्यविभागेन स्वस्थानादिवसास्तथा ॥ महा- णां स्थानभेदेन राशिदृष्टिवशात्फलम् ॥ १४ ॥ इति श्रीबृह- त्पाराशरहोरापूर्वखंडसारांशे धनयोगविचारकथनं नाम त्रिं- शोऽध्यायः ॥ ३० ॥ अथ दरिद्रयांगाध्यायमाह । 11 लग्नेशे वै रिष्फगते रिष्फेशे लग्नमागते । मारकेशयुते दृष्टे ज्ञातः स्यान्निर्धनी नरः ॥ १ ॥ लग्नाधिपे शत्रुगृहं गतं वा षष्ठे- इवरे लग्नगतेपि वा चेत् ॥ बिलग्नपे मारकनाथदृष्टे जातो भवेन्नि- र्धनकोपि मुख्यः ॥ २ ॥ लग्नंदू केतुयुक्तों वा लग्नेशे निधनं गते ॥ मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥ ३ ॥ षष्ठाष्टमव्ययगते लग्नेशे पापसंयुते ॥ मारकेशयुते दृष्टे राजवंश्यापि निर्धनः ॥ ४ ॥ विल्झनाथेरिविनाशरिष्फनाथेन युक्ते यदि पापहृष्टे ॥ मंत्रात्मजे नाथयुतेषि दृष्टे शुभर्न दृष्टे स भवदरिद्रः ॥ ५ ॥ मित्रेशो धर्म- नाथ कर्मस्थित क्रमात् ॥ दृष्टों चेन्मारकेशेन जातः स्या-