पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । बयोव लमेशाष्टमेशों यदि तदापि दीर्घायुः चरस्थिस्योर्यदि लमेशाष्टमेशो तदामष्यमायुः स्थिरद्धिःस्वभावयोर्यौ लग्नेशाष्टमेशौ यदि तदापि मध्यमायुः स्थिरयोयदि लमेशाष्टमेशौ तदाऽल्पायुः चरहिःस्वभावयोर्यंदि लग्नेशाष्टमेशौ तदाल्पायुः एवं मंदचंद्राभ्यां लमहोराभ्यां निश्चितमिति ॥ ११ ॥ अल्पमध्यमपूर्णायु प्रमाणमिहयोगजम् ॥ विज्ञाय प्रथमं पुंसां ततो मारकचिन्तनम् ॥ १२ ॥ वृश्चिके मकरें जन्म नृणां राहुर्मृतिप्रदः ॥ ग्रहस्थितावंशभेदे शनिः स्यान्मारको ध्रुवम् ॥ ।। १३ ।। महामारकसंज्ञों तो मांदिकेत इति स्मृतौ ॥ जायाकुटुं- बकाधीशौ मारकावष्टमेश्वरौ ॥ १४ ॥ प्रायेण मारको राशिद- शास्वत्राविशेषतः।। पष्ठभे पापभूयिष्ठेषष्ठेशो मुख्यमारकः ॥१५॥ षष्ठत्रिकोणगो वापि मुख्यमारक इष्यते ॥ मध्यायुषि मृतिः षष्ठद्- शायामष्टमस्य वा ॥ १६ ॥ षष्ठात्रिकोणस्य पुनर्घाल्पविषयो भवेत् ॥ षष्ठे बलयुते तस्य त्रिकोणे मृतिमादिशेत् ॥ १७ ॥ षष्ठे- शश्चेद्दलाढ्यः स्यात्तत्रिकोणे मृतिं वदेत् ॥ व्यवस्थेयं समस्तापि कारकादिशास्वनु॥१८॥चरे चरस्थिरडा इति यो राशिरागतः || स एव मारको राशिर्भवतीति विनिर्णयः ॥ १९ ॥ मारकेशदशा काले मारकस्थस्य पापिनः ॥ पाके पाकयुजां पाके संभवे निधनं दिशेत॥२०॥असंभवे व्ययाधीशदशायां मरणं नृणाम् ॥ अभावे व्ययभावेश संबंधिग्रहभुक्तिषु ॥२१॥ तदभावेऽष्टमेशस्य दशायां निधनं पुनः ॥ मंदश्चत्पापसंयुक्तो मारकग्रहयोगतः ॥ २२ ॥ ति- रस्कृत्य ग्रहान्सर्वान्निहंता पापकृच्छ्रदः ॥ २३ ॥ मारकग्रहसंबंधी पापकर्ता शनिस्तदा ॥ तिरस्कृत्य ग्रहान्सर्वान्निता भवति ध्रु- वम् ॥ २४ ॥ एतहशांतभुक्त्यादौ विचार्येव मृतिं वदेत् ॥ षष्ठद्रे- प्काणपश्चैव तथा वै नाशकाधिपः ॥२५॥ विपत्ताराप्रत्यरीशौ