पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे बहूयोगफ्टाध्यायः २२ नायके निजगृहप्राप्तेतिवीर्थ्यान्विते ॥ चंद्रात्कोणतं पुरंडरगुरी सौम्यत्रिकोणे कुजे लाभे वा यदि देवमंत्रिणि बुवास्तच्छारदार्स- शकः ॥ २४ ॥ स्त्रीपुत्रबंधुसुखरूपगुणानुरक्ता भूपप्रिया गुरुमही सुरदेवभक्ताः ॥ विद्याविनोदरतिशीलतपोबलाच्या जाताः स्वयं- मनिरता भुविशारदाख्ये ॥ २५ ॥ 2155,5 मत्स्ययोगमाह । लग्नधर्मगते पापे पंचमें सदसयते ॥ चतुरस्रंगते पापे योगा- ये मत्स्यसंज्ञकः ॥ २६ ॥ कालज्ञः करुणासिंधुर्गुणवॉर्बलरूपवा- न् | यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ २७ ॥ अथ कूर्मयोगमाह । कलत्रपुत्रारिगृहेषु सौम्याः स्वतुंगमित्रांशकराशियाताः ॥ - तृतीयलाभोदयगास्त्व सौम्या मित्रोच्च संस्थो यदि कूर्मयोगास विख्यातकीर्तिर्भुवि राज्यभोगी बर्माधिकः सत्वगुणप्रधानः ॥धीरः सुखी वागुपकारकर्ता कूर्मोद्भवो मानवनायको वा ॥ २९ ॥ अथ खड्गयोगमाह । भाग्येशे वनभावस्थे धनेशे भाग्यराशिगे॥ लग्नेश केंद्रकोण- स्थे खड्गयोग इतीरितः ॥ ३० ॥ वेदार्थशास्त्रनिखिलागमतत्त्वयु- क्तिबुद्धिप्रतापबलवीर्यसुखानुरक्ताः॥निर्भत्सराश्च निजवीर्यमहानु- भावाः खड्ङ्गे भवंति पुरुषाः कुशलाः कृताज्ञाः ॥ ३१ ॥ अथ लक्ष्मीयोगमाह । केंद्रमूलत्रिकोणस्थे भाग्येशे परमोच्चगे ॥ लग्नाधिषे बलाध्ये च लक्ष्मीयोग इतीरितः ॥ ३२ ॥ गुणाभिरामो बहुदेशनाथो वि द्यामहाकीर्तिरनंगरूपः ॥ दिगंतविश्रांतपालवंद्यां राजाधिराजो बहुदारपुत्रः ॥ ३३ ॥