पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । सप्तविंशन स्थाप्तिरष्टत्रिंशत्सुखार्थदा ॥ दुय्यरत्नाप्तिरेकोनचत्वा- रिंशद्धि विद्यते ॥१३९॥ धनवान्कीर्तिमांश्चैव चत्वारिंशतिवर्द्धते । अत ऊर्ध्वं यशोथप्तिः पुण्यश्रीरुपचीयते ॥ १४० ॥ इति श्री- वृहत्यागशरहोरापूर्वखंडसारांशेऽष्टकवर्गफलकथनं नाम विंशो- ऽध्यायः ॥ २० ॥ ॥ ६ ॥ ॥ ६५ ॥ नाभसयोगमाह । अधुना में विस्तरतः कथिता योगास्तु नाभसा नाम्ना ॥ अ- ष्टादशशतगुणितारतेषां संक्षपतांवक्ष्ये ॥ १ ॥ आश्रयाख्यास्त्रयो योगा दल्योगह्रयंततः ।। आकृतिविंशतिः संख्या योगानां सप्त- कं स्मृतम् ॥ २ ॥ रज्जुयोगों मूशलश्च नली मालाभ जंगम ॥३॥ गढ़ायोगश्च शकटः शृंगाटकविहंगम ॥ हल्वज्रयवाश्चैव कम- लो वापियूषकौ ॥ ४ ॥ शरशक्तिदंडनौकाकूटछत्रथनूंषिच ॥ अ न्दुयोगश्चक्राख्यः समुद्रश्चेति विंशतिः ॥ ५ ॥ वीणादामनिका- योगः पाशकेदारशूलका || युगगोलो ततः प्रोक्तो योगा द्वात्रिं- शका इमे ॥ ६ ॥ ॥ ६५ ॥ अथाश्रययोगत्रयमाह । सर्वे चरस्था अपि वा स्थिरस्था द्विदेहसंस्था यदि वा भवति।। क्रमेण रज्जुर्मुशलं नलश्च यांगत्रयं स्वादिदमाश्रयाख्यम् ॥ ७ ॥ अथ दलाख्ययोगद्वयमा । केंद्रत्रये सौम्य खगैस्तु माला खलप्रहैर्व्यालसमाह्वयः स्यात् ॥ इदं तु योगडितयं दलाख्यं मुनीश्वरेण प्रतिपादितं हि ॥ ८ ॥ अथाकृतियोगविंशतिमाह । आसन्नकंद्रहयगेर्गदाख्यो लनास्तसंस्थैः शकटः समस्तैः ॥