पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरासारांश | लमेशे पुत्रराशिगे॥ पुत्रेशे बलसंयुक्ते बहुपुत्रं समादिशेत् ।।११५॥ पुत्रस्थानगते जीवे परिपूर्णबलान्विते । लग्नेशे बलसंयुक्ते पुत्रयोगा इमे स्मृताः ॥ ११६ ॥ वर्गोत्तमांगे जीवे लग्नेशस्यांशपे शुभे ॥ पुत्रेशेन युते दृष्टे पुत्रयोगा इमे स्मृताः ॥११७॥ वित्तेशे पुत्रभा- वस्थे परिपूर्णबलान्विते ।वैशेषिकांशके जीवे पुत्रयोगा इमे स्मृताः ॥११८॥ लग्नात्पुत्राधिषे स्वोच्च अन्योन्यत्वादिवीक्षिते ॥ परस्प- रस्थानगते पुत्रयोगा इमे स्मृताः ॥ ११९ ॥ पुत्रस्थानाधिपस्थां- शराशीशे शुभसंयुते ॥ शुभेन वीक्षिते वापि पुत्रयोगा इमे स्मृताः ॥ १२० ॥ लग्नपुत्राधियों केन्द्रे शुभग्रहसमन्विते ॥ कुटुंबेडशे बला- व्ये तु पुत्रयोगा इमें स्मृताः ॥ १२१ ॥ लग्नेश दारभावस्थे दा- रेशे लझमाश्रिते ॥ द्वितीयेशे विलमस्थे पुत्रयोगा इमे स्मृताः ॥ १२२ ॥ दागेशे ग्रहसंयुक्ते नवांशभवनाधिपे ॥ पुत्रवित्तविल मेरो पुत्रयोगा इमे स्मृताः ॥ १२३ ॥ ॥ इतिबहुपुत्रयोगः ॥ पु- चवित्तकलत्रेशाः संयुक्तानवभागपाः ॥ पापांशकाः पापयुता अ नपत्यत्वमादिशेत् ॥ १२४ ॥ गुरुर्लग्नेश दारेश पुत्रस्थानाधिपेषु वा ॥ सर्वेषु बलहीनेषु वक्तव्या वनपत्यता ॥१२५ ॥ व्ययेशसंयुतां- शेशे मृत्युराशौ स्थितै यदि ॥ पुत्रेशे क्रूरषष्ट्रघंशे अनपत्यत्वमा- दिशेत् ॥ १२६ ।। लग्नपुत्रेश्वरी दुःस्थे कारके नीच राशिगे । अ- नपत्यग्रहे पुत्रे अनपत्यत्वमादिशेत् ॥ १२७॥ क्रूरषष्टपेशके जीवे पुत्रस्थे नाशराशिगे ॥ पुत्रेशे नाशराशिस्थे अनपत्यत्वमा दिशेत ॥ १२८॥ नाधिपे कुजे स्वोच्चे रंध्रे मंदयुते रखौ ॥ शुभ- दृष्टिसमायोगे चिरात्पुत्रमुपैति सः ॥ १२९ ॥ ल मंदे गुरौ रंधे व्यये भौमसमन्विते ॥ शुभदृष्टे स्वतुंगे वा चिरात्पुत्रसुपैति सः ॥ ॥ १३० ॥ पुत्रस्था मंदजीवज्ञा लग्ने पुत्राधिपे शुभे ॥ पुत्रेशे शुभः