पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः महान् ॥ कुशलः सर्वकार्येषु केवलं शूलरोगवान् ॥ ९१ ॥ लाभेशे षष्ठभवने नानारोगसमन्वितः । सर्वं सुखं भवेत्तस्य प्रवासी परसे- वकः ।। ९२ ॥ लाभेशे सप्तमे रंध्रे भार्या तस्य न जीवति ॥ उदा- रो गुणवान्कम मूर्खो भवति निश्चितम् ॥ ९३ ॥ लाभेशे गगने बर्मे राजपूज्यों धनाधिपः ॥ चतुरः सत्यवादी च निजधर्मस- मन्वितः ॥ ९४ ॥ अथ व्ययेशद्वादशभावस्थितफलमाह । व्ययेशेऽरिव्यये पापी मातृमृत्युविचिंतकः ॥ क्रोधी संतान- दुःखी च परजायासु लंपटः ॥ ९५ ॥ व्ययेशे मदने लने जाया- सौख्यं भवेन्नहि ॥ दुर्बलः कफरोगी च धनविद्याविनिर्जितः ॥९६॥ व्ययेशे द्वितये रंधे विष्णुभक्तिसमन्वितः ॥ धार्मिकः प्रियवादी च सकलगुणसंयुतः ॥ ९७ ॥ भार्याद्वेषी प्रियद्वेषी गुरुद्वेषी भवे- नरः ॥ व्ययेशे सहजे धर्मे स्वशरीरस्य पोषकः ॥ ९८ ॥ व्ययेशे दशमे लाभे पुत्रसौख्यं भवेन्नहि ॥ मणिमाणिक्यमुक्तानि धत्ते किंचित्समालभेत् ॥ ९९ ॥ एतत्ते कथितं विप्र भावानां च फला- फलम् ॥ बलाबलविवेकेन सर्वेषां फलमादिशेत् || १०० || वक्री वेत्स्वचतुर्थ: स्यात्फलं भौमो ददातिच ॥ बुधतुर्येऽथदेवेज्ये पं चमे शशिभार्गवों ॥ १०१ ॥ सप्तमस्य तमध्वंसी पुत्रस्य नवम- स्य च ॥ वित्तस्य विषुवत्यकें ददाति स्वफलं विधुः ॥ १०२ ॥ ग्रहे पूर्णफले प्राप्ते फलं पूर्ण समादिशेत् ॥ अर्द्धमई पादहीने- तवेदं पादमंघ्रिणा ॥ १०३ ॥ भावानां द्वादशानां च सर्वेषां फ लमादिशेत ॥ भावस्थानां ग्रहाणां च फलं ते कथितं मया ॥१०४॥ इति श्रीहत्पाराशरहोरापूर्वखंडसारांशे भावस्थग्रहाणां फलक- यनं नाम पंचदशोऽध्यायः ॥ १५ ॥ ॥ ६ ॥