पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१९४) ॥ ६३ ॥ धूनेशे नवमे वित्ते नानास्त्रीभिः समागमः ॥ आरंभी दीर्घसूत्री च स्त्रीषु चिन्तं हि केवलम् ॥ ६४ ॥ धूनेशे दशमे तुर्ये नास्य जाया पतिव्रता ॥ धर्मात्मा सत्यसंयुक्तः केबलं दंतरोगचा- न् । ६५ ।। धूनेशे सहजे लाभे मृतपुत्रः प्रजायते ॥ कदाचिजी- वती कन्या यत्नात्पुत्रोऽपिजायते ॥ ६६ ॥ द्वादशस्थे सप्तमेशे दरिद्रः कृपणो महान् ॥ चारकन्या भवेद्राय वस्त्रजीवी च निर्धनी ॥ ६७ ॥ सर्वगुणयुतो मानी भवेत्सर्वधनाधिपः ॥ सदैव हर्षस युक्तः सप्तमेशे सुते स्थिते ॥ ६८ ॥ अथाष्टमेशद्वादश भाव स्थितफलमाह । द्यूती चोरोऽन्यथावादी गुरुनिंदासु तत्परः ॥ अष्टमे ह्यष्टम- स्थाने भार्या पररता भवेत् ॥६९॥ अष्टमेशे तपःस्थाने महापा- घी च नास्तिकः ॥ सुतहा ह्यथवा वंध्या परभार्याधने रुचिः ॥७०॥ अष्टमेशे सुखे कर्मपिशुनो बंधुवर्जितः ॥ मातापित्रोर्भवेन्मृत्युः स्वल्पकालेन भौतियुक् ।। ७१ ॥ अष्टमेशे सुते लाभे तस्य वृद्धि- नै जायते ॥ द्रव्यं न स्थीयते गेहे स्थिरबुद्धिर्भवेजनः ॥७२ अ ष्टमं व्यये षष्ठे नित्यं रोगी प्रजायते ॥ जलसर्पादिकान्हातो भ- वेत्तस्य च शैशवे ॥ ७३ ॥ अष्टमेशे तनों कामे भार्याद्वय समा- दिशेत् ॥ विष्णुद्रोहरतो नित्यं त्रणरोगी प्रजायते ॥ ७४ ॥ धनं तस्य भवेत्स्वल्पं गतं वित्तं न लभ्यते ॥ अष्टमेशे घने बाहुबल- द्दीनः प्रजायते ॥ ७५ ।। अथ भाग्येशद्वादशभावस्थितफलमाह । धनधान्तो नित्यं गुणसौंदर्यसंयुतः ॥ बहुभ्रातृसुख यु भाग्येशे नवमे स्थितें ॥ ७६ ॥ भाग्येशे दशमे तुर्वे मंत्री सेना-