पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

शैशवे स्थितवता चपलाशे
शाङ्गिणेव वटवृक्षपलाशे ॥
आत्मनीदमखिलं विलुलोके
भाविभूतमपि यत्खलु लोके ॥ ८० ॥
तं ददर्श जनताऽदुतबालं
लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं
लोचनैरनिमिषैरनुवेलम् ॥ ८१ ॥
कोमलेन नवनीरदराजि
श्यामलेन नितरां समराज ॥
केशेवेशतमसाऽधिकमस्य
केशवेशचतुरास्यसमस्य ॥ ८२ ॥




ङ्क्षितवान् । तत्र दृष्टान्तो यथोदारचरितः स प्रसिद्धः केशवः श्रीकृष्णः स्वमायया
शिशुवद्विभातः सन्स्वशैशवस्योचितमन्वकाङ्क्षीत्तथेत्यर्थः ॥ ७९ ॥
 चपलाऽऽशा यस्मिन्नेवंभूतेऽपि शैशवे बाल्ये स्थितवता भावि भूतं च यदिदं ख
लु लोकेऽस्ति तदखिलमात्मानि विलुलोके सम्यगवलोकितम् । कर्मणि लिट् । तत्र
दृष्टान्तो यथा वटवृक्षस्य पलाशे पत्रे स्थितवता शाङ्गिणा श्रीविष्णुना यदिदं तदखि
लमात्मन्यवलोकितं तद्वदित्यर्थः । स्वागता वृत्तम् । ‘स्वागतेति रनभादुरुयुग्मम्’ इति
लक्षणात् || ८० ।।
 लीलयाऽविगतः प्राप्तो दोलो येन वामना कमनीया लीला यस्य तमदुतबालं
श्रीशंकरं निमेषोज्झितैर्नेत्रैरनुवेलमनिशं जनसमूहो ददर्श । लीलयाऽविगतदोलं वाम
नलीलमदुतबालं श्रीकृष्णमिव ॥ ८१ ॥
 केशवश्वेशश्च चतुरास्यश्च तैर्विष्णुशिवविधिभिः समस्य तुल्यस्यास्य श्रीशंकरस्य
केशपाशतमसाऽधिकं यथा स्यात्तथा समराजि सम्यक्शोभितं तद्विशिनष्टि कोमलेन
पुनश्च नवनीरदानां नवीनजलदानां या राजिः पङ्किस्तद्वच्छन्यामलेनातृिश्यामेनेत्य
थे: ॥ ८२ ॥


१ क. "शपाश'।