पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
७७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

केचिद्धनं निदधते भुवि नोपभोगं
कुर्वन्ति लोभवशगा म विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति
तचेन्नदीपरिसरे जलमेव हर्तृ ॥ ३९ ॥
सर्वात्मना दुहितरो न गृहे विधेया
स्ताश्चेत्पुरा परिणयाद्रज उद्रतं स्यात् ॥
पश्येयुरात्मपितरौ बत पातयन्ति
दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥ ४० ॥
मा भूदयं मम मुता कलहः कुमारी
पृच्छाव सा वदति यं भविता वरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्या
अभ्याशमीपतुरितो गदितेष्टकायै ॥ ४१ ॥




न्ति खलु प्रसिद्धं यतो लौकिकवितानां चोरादिभ्यो भयमतो बालिशस्य विद्याहीन
स्य मूर्खस्य सुखसंज्ञको गुणः कदाऽपि नास्ति ॥ ३८ ॥
किंच केचिलोभवशवर्तिनो धनं भूमौ स्थापयन्ति न तूपभोगं कुर्वन्ति केचित्तु भूमौ
स्थापितं धनं भोगेच्छाकाले नैव लभन्ते किंचान्येन गोपितमथान्यजना इरन्ति तद्धनं
नद्याः परिसरे तीरे गोपितं चेत्तर्हि जलमेव हर्तृ । तथाचानेकदुःखसंमिश्रबाह्यविक्तव
तापेक्षया विद्याधनवत्त्वमेव श्रेष्ठमिति भावः ॥ ३९ ॥
किंच सर्वात्मना सर्वपकारेण दुहितरो गृहे नैव स्थापनीयाः। विपक्षे दोषमाह । ता
दुहितरो विवाहात्पूर्वं स्वस्मादुद्रतं रजः पश्येयुश्चेत्तदा दुःखेषु घोरनरकेषु स्वपितरौ
पातयन्तीति धर्मशास्त्रम् । तथाचोक्तम् ।

‘पितृगृहे तु या कन्या रजः पश्येदसंकृता ।
भूणहा तत्पिता ज्ञेयो वृषली सा च कन्यका' इति ।। ४० ।।


मा भूदयं मया सह तव कलहः कुमारीं पृच्छाव सा मम सुता यं वदति स तस्या
वरो भविष्यत्येवं संकेतं विधाय पितरावस्मात्स्थानाकुमार्याः समीपमीयतुर्जग्मतुर्गदितं
कथितमिष्टकार्य याभ्यां तौ ।। ४१ । [ समयं प्रतिज्ञाम् ।

'समयः शपथाचारसिद्धान्तेषु तथाऽधिपे ।
क्रियाकारे च निर्देशे संकेते कालभाषयोः' इति मेदिनी ] ॥ ४१ ॥


१ ग. घ. "यं तव मया क। क. "यंक'।१ ख. 'पितुर्गुहे ।