पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।


मझं तदुक्तमभिरोचत एव विौ
पृष्टा वधुं मम पुनः करवाणि नित्यम् ॥
कन्यामदानमिदमापतते वधूषु
नो चेदमूब्र्यसनसक्तिषु पीडयेयुः ॥ ३२ ॥
भार्यामपृच्छदथ किं करवाव भद्रे
विमौ वरीतुमनसौ खलु राजगेहात् ।
एतां मुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥ ३३ ॥
दूरे स्थितिः श्रुतवयःकुलवृत्तजातं
न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ॥
वित्तान्विताय कुलवृत्तसमन्विताय
देया सुतेति विदितं श्रुतिलोकयोश्च ॥ ३४ ॥




 एवमुक्तो विष्णुमित्र उवाच । हे विमौ यद्यपि तेन हिममित्रेणोक्तं मह्य रोचत एव
तथाऽपि निजवधू पृष्टा तदुक्तं करवाणि । यस्मादिदं कन्याप्रदानं वध्वधीनमेव नित्यं
भवति । नो चेत्तदनुमत्यभावे व्यसनप्राप्तिषु कन्याया दुःखप्राप्तिष्वमूर्वध्वः पीडयेयु
रित्यर्थः ॥ ३२ ॥ [ भायततेऽभितो यत्नं तनोतीत्यर्थः । कन्यादानविषयकः समी
चनिस्थलनिरीक्षणादिलक्षणः प्रयत्नः पत्न्येकाधिकरणकः प्राधान्येन भवतीति भा
वः ] [ व्यसनेति । ‘व्यसनं त्वशुभे' इति मेदिन्युतेव्र्यसनेष्वशुभेषु दैवाज्जातेषु सत्सु
याः सक्तयः प्रेमातिशयाच्छोकातिरेकास्तेषु प्राप्तषु सत्स्वित्यर्थः ] [ पीडयेयुः प
तिमित्यार्थिकं संयोज्य योजना ] ॥ ३२ ॥
 अथानन्तरं भार्या पृष्टवान्हे भद्रे तव या पुत्रतुल्या कन्याऽस्ति तां वरीतुकामी
खलु राजगेहादेतावागतौ । एतयोरागमनं भद्रकरमिति संबोवनाशयः । तत्र किं
करवाव किं देया न देया वा तस्मात्त्वं पक्षद्वय एकमनुमाय सम्यग्ज्ञात्वा बूहि । यतो
देयेत्युक्त्वा न देयेति पुनर्न वक्तव्यं ‘सकृत्कन्या पदीयते' इत्यादिस्मृतेः ॥ ३३ ॥
[ हे भद्रे कल्याणमूर्त इत्यर्थः । एतेन त्रैवर्गिकस्य धर्मादिलक्षणस्य कल्याणस्य तदे
कायत्तत्वात्तत्प्रोत्साहनं ध्वन्यते । राजेति । काश्मीरेश्वरगृहात् । खलु निश्चितम् ।
एतेनैहिकसंपत्तिशालित्वं व्यज्यते । किं करवावाऽऽवामित्यार्थिकम् ] ॥ ३३ ॥
 एवं पृष्टा विष्णुमित्रभार्योवाच । प्रथमं स्थितिर्दूरे तथा यच ज्ञातव्यं श्रुतवयःकुल
वृत्त जातं तदपि न ज्ञायतेऽतस्तुभ्यमहं किं प्रवदामि । वित्तयुक्ताय कुलेन वृत्तेनाधी
तेन शीलेन वृत्त्या च समन्विताय कन्या प्रदेयेति' तु ।


१ ग'नि।कु'।