पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

पुत्रेण सोऽतिविनयं गदितोऽन्वशाद्दौ
विप्रो वधूवरणकर्मणि संप्रवीणौ ।।
तावापतुर्द्धिजगृहं द्विजसंदिदृक्षु
देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥ २७ ।।
भूभृन्निकेतनगतः श्रुतविश्वशास्त्र
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ॥ २८ ॥
पुत्रया वचः पबात कणपुटन तात
श्रीविश्वरूपगुरुणा गुरुणा द्विजानाम् ।।
आजग्मतुः सुवसनौ विशदाभयष्टी
संप्रेषितौ मुतवरोद्वहनक्रियायै ॥ २९ ॥


वक्ष्यमाणकन्यारत्नकर्तृकस्वहृदयरसनिमज्जनादिपुखमनुभूयत इति द्योत्यते । तन्नात्र
नैवाधिकपदत्वादिदोषावकाशः । द्विजेति । तीर्थयात्रादपरायणत्वेन ब्राह्मणश्रेष्ठवा
क्येभ्यो निमित्तभूतभ्यः श्रुतिं गतवती मत्कर्णपथं प्राप्ताऽभूत् । पक्षे वेदतदर्थज्ञत्वेन
ब्राह्मणश्रेटेभ्यो हेतुभ्यः सरस्वती देवतात्वेन श्रुतिप्रसिद्धेत्यर्थः ] ॥ २६ ॥
 एवमतिविनयं यथा भवेत्तथा पुत्रेण कथितः स हिममित्रो वधूवरणकर्मण्यतिकुशलौ
द्वैौ विप्रावन्वशात्प्रेषितवान् । वधूवरणकर्मण्याज्ञप्तवानिति वा । तौ निजकार्यसिद्धयर्थ
विष्णुमित्रदर्शनेच्छु बहुलान्देशानुलङ्घ्य विष्णुमित्रगेहमवापतुः ॥ २७ ॥
 अथोभयभारतीवाक्यमुदाहरति । राजस्थाननिवासी श्रुताखिलशास्त्रो यो विश्वरूप
इति भूमौ परूयातस्तस्य चरणरजसे नित्यं स्पृहां करोमि 'स्पृहरीप्सितः' इति संप्रदा
नम् । हे तात यद्यत्र तत्पादपद्मरज:प्राप्तौ भवान्साहाय्यं विदध्यात्ताहिं स्पृहा सफला
स्यादित्यर्थः ॥ २८ ॥ [ भूभृदिति । एतेन लैौकिकसंपत्तिमत्त्वं तत्र ध्वन्यते]॥२८॥
 एवं पुत्रया वचनं ताते कर्णपुटेन पिबति सति द्विजानां गुरुणा विश्धरूपपित्रा हि
ममित्रेण सुतस्योत्कृष्टविवाहक्रियार्थे संप्रेषितौ विशदाभायुक्तयष्टिद्वययुक्तौ सुवस्रौ द्वौ
ब्राह्मणावाजग्मतुः ॥ २९ ॥ [ यद्यप्यत्र पुत्रीपदादेव तस्मिन्पितृत्वे लब्वे पुनस्तद्वाच
कं तात पदं पौनरुक्त्यापादकमिव प्रतीयते तथाऽपि सतीपितरि दक्षप्रजापतौ जामातू
द्वेष्टत्वेन पितृत्वगुणाभावस्यापि शाखे दर्शनात्तदपाकरणार्थत्वेन तदुपयुक्तमेवेति भा
वः ] [ कर्णेति । पिबति सादरं शृण्वति सतीत्यर्थः । एतेनोक्तवाक्ये पीयूषसम
त्वं सूचितम् ] [ सुवसनौ शोभनानि धौतसितत्वादिना रमणीयानि वसनान्युष्णी
षादिवासांसि ययोस्तौ तथा ] [ विशदेति । विशादा निर्मलाऽऽभा ययोस्तादृश्य