पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

सर्वाभिराशाभिरलं प्रसेदे
वातैरभाव्यदुतदिव्यगन्धैः ॥
प्रजज्वलेऽपि ज्वलनैस्तदानीं
प्रदक्षिणीभूतविचित्रकीलैः ॥ ७६ ॥
सुमनोहरगन्धिनी सतां
सुमनोवद्विमला शिवंकरी ।
सुमनोनिकरप्रचोदिता
सुमनोवृष्टिरभूत्तदाऽदुतम् ॥ ७७ ॥
लोकत्रयी लोकदृशेव भास्वता
महीधरेणेव मही सुमेरुणा ॥
विद्या विनीत्येव सती सुतेन सा
रराज तत्तादृशाराजतेजसा ॥ ७८ ॥




चीबभूव विकासं माप ॥ ७५ ॥ [ वरेति पुस्तकविशेषणं तु तत्तत्सूत्राद्यार्षग्रन्थ
संप्रहार्थमेव । श्रुतीति । उपनिषद्भागमात्रपुस्तकानीत्यर्थ । जहसुः स्वत एव वेष्टना
दिविघटनपूर्वकमुद्धाटितारम्भाक्षरसरणीनि बभूवुरित्यर्थः ][ श्रीति । श्रीव्यासचित्तसर
सः प्रादुर्भूतं यत्कमलमिव ब्रह्मसूत्रं तत्पुस्तकमपीति यावत् । भगवद्वादरायणान्तःक
रणमपि सुपसन्नमासेति तु कैमुत्यसिद्धमेवेति भावः । एतेन श्रुतिमस्तकपदेन तदधि
ष्ठातृदेवताग्रहोऽपि व्याख्यातः ] ॥ ७५ ॥
 किंचव सर्वाभिराशाभिर्दिग्भिरलं प्रसेदे । भावे प्रत्यय । सर्वा दिशोऽतिशयेन पसन्ना
बभूवुरित्यर्थः । अदुतो दिव्यो गन्धो येषां ते तैर्वातैरभावि वायवोऽदुतदिव्यगन्धाश्चा
भूवन् । पदक्षिणीभूता विचित्राः कीला ज्वाळा येषां तैज्र्वलनैरमिहोत्रादिभिरपि तदानीं
प्रजज्वले तथाभूता अग्रयोऽपि प्रज्वलिता बभूवुः । अत्रापि भावे प्रत्ययः ।
उपजातिवृत्तम् ॥ ७६ ॥
 किंच तदा तस्मिन्काले सुमनोहरो गन्धोऽस्यास्तीति तथा सतां सुषु शुद्धं यन्मन
स्तद्वद्विमला शिवं सुखं करोतीति तथा सुमनसां देवानां निकरैः समूहैः प्रचोदिता मेरि
ता सुमनसां पुष्पाणां वृष्टिरद्रुतं यथा स्यात्तथाऽभूत् । यमकालंकारः ।

अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।


 यमकम्' इत्युक्तः। ‘विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिन ' ॥७७॥
 लोकत्रयी लोक्ष्टशा लोकनेत्रेण भास्वता सूर्येणेव मही सुमेरुणा पर्वतेनेव विद्या