पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इति ।


यद्वा परं परमेश्धरं सर्वात्मानं शिवं प्रणम्येत्यर्थः । तं विशिनष्टि । श्रीविद्यातीर्थरूपिणम् । तार्किकादिकल्पितैः कुतकैर्मलिनीकृताया विद्यायाः सरस्वत्यास्तन्मलापकरणेन शोधकत्वाद्विद्यातीर्थः । श्रिया ब्रह्मविद्यात्मिकया युक्तः श्रीविद्यातीर्थो
भगवान्भाष्यकारस्तदूपिणम्। तथाचोक्तं संक्षेपशारीरकाचार्ये-

'वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्विताऽऽसीत् ।
निरस्तदुस्तकैकलङ्कपङ्का नमामि तं शंकरमचंताडूघ्रिम्' इति ।


शिवावतारत्वं च भगवतो भाष्यकारस्य शिवपराणादेरवगन्तव्यम् । तथाचोक्तं शिवपुराणे-

‘व्याकुर्वन्व्याससूत्रार्थं श्रुतेरर्थे यथोचिवान् ।
श्रुतेन्र्याय्य: स एवार्थः शंकरः सावता न नः’ इति ।


यद्वाऽऽत्मानं प्रत्यगभित्रं परं परमेश्वरं श्रीमया विद्याशब्देन परापरविद्ये तत्प्रा
प्यौ मोक्षदेवलोकौ च गृह्यते । तीर्थशब्देन-

'तीर्थे शास्त्राध्वरक्षेत्रपात्रोपाध्यायमत्रिषु ।
अवतारर्षिजुष्टाम्भः स्त्रीरजःसु च विश्रुतम् ।


इति विश्धोक्तानि शास्त्रादीनि गृह्यन्ते । तदूपिणं सर्वात्मकमित्यर्थः । ‘सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्’ इत्यादिश्रुतेः । तथाच श्रीमच्छंकरजयनिरूपणेन तदुक्तस्य ब्रह्मात्मभावस्यैव जय इति स एवाज्ञातः सन्विषयो ज्ञातः सन्प्रयोजनम् । भाचार्यविजयज्ञानं त्ववान्तरमयोजनमिति परमेत्यादिना सूचितम् । अत्रानेकार्थ शब्दन्यासाच्छलेषालंकारः । तदुक्तं—‘नानार्थसंश्रयः श्लेषः' इति ।

‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ।
ते सर्वे च न निन्द्याः स्युर्लिपितो गणतोऽपि च'।


इत्युक्तत्वाज्जगणादिपयोगो न दोषावह इति मन्तव्यम् ॥१॥ * [ श्रीति। अत्र रूढया स्वगुर्वभिन्नमित्यर्थः । िद्याशाब्दिताद्वैतब्रह्मात्मैक्यविषयकसाक्षात्कारलक्षणचर
मान्त:करणवृत्तिविशेषरूपाखण्डममाप्रतियोगिकतीर्थशब्दितोपायत्वस्यापि तत्र योग
वृत्त्या लाभादुरुत्वसामग्रसिद्धिः। तथाहि। िवद्याया ब्रह्मविद्यायांस्तीर्थं तीर्थं शास्त्रा-



अतः परं [] इति चिन्हे यदागमिष्यति साऽद्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पणी.


१ ख. परब्रह्मविद्यापरशास्त्रविये ।