पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री ॥ श्रीविद्यारण्यविरचितः । श्रीमच्छंकरदिग्विजयः । अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः । प्रथमः सगोः । प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।। प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥ श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥ सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥ नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् । विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥ व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् । क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥ निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते । प्रणम्येति । परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः १ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा न्मा "। ६ ख. *थैरूपस्ये।