[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । दुष्टसँोगत कथं धर्मोऽस्त्यहिंसापरो यागीयस्य हि हिंसनस्य निगमे धर्मत्वमुक्तं स्फुटम्॥ टोममुखे क्रतौ खलु पशोः स्वर्गमदं हिंसनं श्रुत्याचाररतैरुपेयमपरे पाखण्डिनो विस्फुटम् ।। ६३ । वेदनिन्दापरा ये तु तदाचारविवर्जिताः । ते सर्वे नरकं यान्ति यद्यपि ब्रह्मवीर्यजाः ॥ ६४ ॥ इत्येवं मनुनोक्तत्वात्तदाचाररताः किल । पच्यन्त नरके घोरे यावद्रह्मलयो भवेत् ।। ६५ । तस्माद्विप्रादिवर्णानां वेदादिषु निरूपितः ।। अभाचारः परमं मानं यस्य तन्नास्ति सोऽवमः ।। ६६ ॥ इत्युक्तोऽसौ सौगतो मान शून्यो नत्वाऽऽचार्य पद्मपादादिकानाम् ॥ तच्छिष्याणां पादुकावाहकोऽभूतेषामुच्छि ष्टादनेनातिपुष्ट ॥ ६७ । कौपीनमात्रधारी तु कश्चित्क्षपणकः स्मृतः ॥ स एकस्मिन्करे धृत्वा गोलयन्त्रं द्वितीयके ।। ६८ । तुरीयन्त्रं समादाय समागत्याऽऽह शंकरम् ॥ स्वामिञ्श्रुणु विाचत्रं मे मतं परमशोभनम् ॥ ६९ ॥ पर्णपमयनामाहं सूर्य कालपवतकम् । बद्ध्वा त्वाभ्यां सुयन्त्राभ्यां समयज्ञानतः शुभम् ।। ७० । अशुभं च त्रिलोक्यां यलभ्यं तद्वच्मि संस्फुटम्। किं च कालः परो देवो मत्पक्षस्य विचालने ।। ७१ ॥ परेशोऽपि समर्थो नेत्युक्तस्तं प्राह शंकरः ॥ सम्यगुतं त्वया त्वं यत्कालवित्तं च वेद्रम्यहम् ॥ ७२ ॥ तस्मान्मदाश्रयस्तिष्ठ परीक्षाकाल आगते ।। त्वां पृच्छामीति संप्रोक्तस्तथैवाङ्गीचकार सः ॥ ७३ ॥ कौपीनमात्रसंवारी जैनस्तु तत आगतः ॥ मलेन दिग्धसर्वाङ्गः सदाऽईन्नम इत्यासै। ॥ ७४ । उचरन्नसकृचोचै: शून्याङ्कःशून्यपुण्डूकः ॥ बिन्दुपुण्ड्रसमेतश्च iशष्यैः सर्वभयंकरः ।। ७५ । पिशाचव त्समागत्य माह श्रीशंकरं गुरुम् । जिन देवोऽस्ति सर्वेषां मुक्तिदः प्राणिनां हृदि ।। ।। ७६ ॥ जीवात्मना स्थितः सोऽतिज्ञानमात्रेण सर्वदा । मुक्तत्वात्तस्य देहस्य पातात्तु समनन्तरम् ॥ ७७ ॥ जीवः शुद्धः सदैवास्ति मलपिण्डस्तु देहकः ॥ स्नाना दिकर्मणा नैव शुद्धिं याति कदाचन ॥ ७८ ॥ तस्मात्नानादिकं नैव प्रकर्तव्यं वृथा यतः ॥ इत्युक्तोऽसौ जगादेदं मैवं भो जैनदुर्मते ।। ७२ ॥ जीवस्य देहत्रितयं हि विद्यते स्थूलश्च सूक्ष्मश्च तथैव कारणम् ॥ तेषां क्रमाज्जातु लयो भवेद्यदा स्यात्सचि दानन्दवपुस्तदा त्वयम् ॥ ८० ॥ भिन्नोऽहमशिादिति धीरविद्या बद्धस्तया मेदधिया विमुक्तः ॥ एवं विमोक्षस्य सुदुर्लभस्य देहस्य पातान्न समाप्तिसंभवः ॥ ८१ ॥ एवं श्रुत्वा शिष्ययुक्तः स जैनो भाषावेषाचैर्विमुक्तो गुरूणाम् ॥ नित्यं धान्याकणे संपयुक्तः पद्मास्याचैरेष जातो वणिग्वै ॥८२॥ बैोद्धस्ततस्तं शबलाख्य एत्य प्रोवाच बोधस्तव भो निरर्थः । नरस्य शृङ्गेण समो ह्यभेदः सर्वोत्तमः सन्किमतः प्रवृत्तः॥८३॥ दृष्टं फलं त्वं परिहाय दूरमदृष्टमाकाङ्क्षसि दृष्टशत्रुः । तत्रापि ते नैव फलं परोक्षे शून्यं परोक्ष न फलाय कल्पम् ॥ ८४ । निजीवत्वाचाप्यपाथै मतं त एकोऽप्यात्मा १ ग. "र्णसङ्कतना ५५७ ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५५
दिखावट