श्रीमच्छकरदिग्विजयः । [ सर्गः १५ ] ७ ७७ गमनं रूपहीनत्वात्रैव संभवति कवित् ॥ तस्मादस्मन्मतं सम्यगित्युक्तः प्राह शंकरः ॥ ४० ॥ श्रुतिबाह्यांमद मत यताऽता न च सम्यकशृणु म मत ततस्त्वम् ॥ स तु देहमुखाद्विभिन्न आत्मा परमात्मा परिपठ्यते विमुक्त ।। ४१ । विबद्धः परात्माऽऽ प्रबोधाद्विमुक्तः परिज्ञानतो देहपाताद्विमुक्तिः । त्वदीयेयमुक्तिभ्रमादेव नूनं श्रुतिज्ञ नमात्राद्धि मुक्ति जगाद ।। ४२ ॥ ज्ञानाग्निदग्धकर्माणो यान्ति ब्रह्म सनातनम् ।। इत्याद्याऽस्ति श्रुतिः साक्षात्तद्वाक्यं न अमेति चेत् ।। ४३ । भवद्वाक्यं कथं मानं कुत्सितं किल वह्निना ।। स्थूले दग्धेऽपि देहेऽस्मिलिङ्गंयुक्तो व्रजत्यमुम् ॥ ४४ ॥ ज्योतिष्टोमादिकं वाक्यं मानमत्र दृढं स्मृतम् । जलीकाजन्ततल्योऽयं जीवः मोक्तस्तथा श्रुतैौ ।। ४५ । देहाद्देहान्तरं याति परलोकं स गच्छति ॥ श्राद्धादिकर्म कर्तव्यं तस्य पुत्रादिना खलु ॥४६॥ तत्प्रेतत्वविमुक्त्यर्थ पुण्यलोकस्य चाऽऽप्तये ।। गयादौ पिण्डदानं च कर्तव्यं तस्य मुक्तये ॥ ४७ ॥ इत्यर्थस्तु पुराणादौ बहुधा संप्रदर्शितः । तस्मात्सप्तदैशाङ्गः स लिङ्गं स्वात्मतया गतः ॥ ४८ ॥ परत्र पक्षिवद्याति सिद्धान्तोऽयमुंदीरितः ॥ मूढ चार्वाक तस्मात्त्वमितस्तृष्णीं व्रजाधुना ॥ ४९ ॥ इत्युक्तो वेषभाषादि त्यक्त्वा गुरुपदद्वयम् ॥ नत्वा तत्पुस्तभारस्य भरणे द्युद्यतोऽ भवत् ||५० । ततः सौगतः शंकरं पीनकायः प्रणम्याऽऽह लोका इमे मृढभावात् ॥ सदा कर्मशीला यतो भैतिकस्य विशद्धिर्ने च रुनानदानादिनाऽस्ति । ५१ । सदा निर्मलो देहपाताद्विमुक्तस्तु जीवः पुनर्जायतेऽसावृणेन । प्रजल्पन्ति मूख धनं तद्धि देहाद्यदृष्टेन लभ्यं ततो नास्ति भीतिः ।। ५२ । देहान्ते वा ऋणाभावादृणं कृत्वा घृतं पिबेत् ॥ इति वाक्यस्य मानत्वाद्देहपुष्टिः सदैव हि ॥५३॥ कर्तव्या बुद्धियुक्तन तत्कृत्वा तत्र तत्र च ॥ सर्वभक्षणशीलस्य सुखस्याऽऽवाप्तिगाप्तित: ॥ ५४ ॥ कम् ॥ ५५ ॥ श्रुतिस्मृतीतिहासादै । प्रोक्तं भोगाय कर्मणः । तस्मादृणादिकं कर्तुः पुनर्जन्म सुनिश्चितम् ॥ ५६ ॥ तथाचाज्ञानबुद्धिं त्वं पापदिग्धां विहाय वै ।। सन्मा र्गस्थो भवेदानीमित्युक्त पुनराह सः ।। ५७ । सुगताख्यो मुनिः सर्वा भुवं दृष्टा सुविस्मितः ॥ विचार्य जगतः सत्त्वं प्राण्युपासनतत्परः ।। ५८ । काले मदुपदेशस्य करुणाविष्टमानसः । इदमाह स धर्मोऽस्ति परः प्राण्यविहिंसनम् ॥ ५९ ॥ तथाविधेन धर्मेण कपालस्य निवर्तनात् ॥ मुक्तो भविष्यसीत्युक्तस्तदारभ्याहमप्ययम् ।। ६० ।। तत्पादयुगलध्यानी शिरसाऽऽगृह्य तद्वचः ।। दयापरोऽस्मि सर्वेषु प्राणिजातेषु सर्वदा ॥ ६१ । यस्माद्धम्ऽतो न चान्योऽस्ति सारस्तस्माद्धर्मस्थानमेतन्मतं मे ।। सर्वेरङ्गी कार्यमित्येवमुक्तो भूयः पाहाऽऽचार्य इत्थं महात्मा ।। ६२ । किं त्वं जल्पसि १ ग. घ. 'त्राद्विमु'। २ क. 'दशांशं स । ३ घ. 'मुदाहृत:। ४ घ. वेशभा'।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५४
दिखावट