५५८ श्रीमच्छकरदिग्विजयः । १ घ. 'तेन । भू' । २ चेतनेो मे मते' तु ॥ भूत्वाऽनेक: पेरको हृन्मुखानां नित्यं मुक्तो द्वैतशून्यः सुखात्मा ॥८५॥ कर्ता भोक्ताऽहं परानन्दरूपो मन्वानः स्वाभीष्टमस्यास्ति यावत् ॥ तावत्क्रीड त्रेषु देहेषु पश्चाद्देहं त्यक्त्वा मुक्त इत्युक्त भाह ॥ ८६ ॥ सत्यशौचपरो यस्तु देवतातिथिपूजने ॥ स याति ब्रह्मणो लोकं यावदिन्द्राश्चतुर्दश ॥ ८७ ॥ अन्निष्टोमं देवताप्रीतिदं चेत्कुर्यादस्मादिन्द्रलोकं स याति ॥ सत्यारूयं सत्पौ ण्डरीकात्प्रयाति तत्तद्देवोपासकास्तं तमेव ॥ ८८ ॥ यो यो यां यां तर्नु भक्तः श्रद्धयाऽर्चितुमिच्छाति ॥ तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ८९ ॥ इत्यादिवचनादस्य परलोकगमादिकम् ॥ सिद्धं तस्मान्न देहस्य पातमात्राद्विमुच्यते ॥ ९० ॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ॥ संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ ९१ ॥ इत्यादिश्रुत्या ज्ञानेन विना मोक्षोनलभ्यते ॥ इत्युक्तमत आत्मानं परं ज्ञात्वा विमुच्यते ॥ ९२ ॥ कल्पितां जीवतां हित्वा सर्वानर्थपदा यिनीम् ॥ सचिदानन्दरूपेण मुक्तिरुक्ता सदा स्थितिः ॥ ९३ ॥ तस्मात्त्वं मूढतां त्यक्त्वा भव स्वस्थ इतीरितः । परं गुरुं नमस्कृत्य तद्यश:स्तवतत्परः ॥ ९४ ॥ बन्दिमागधसूतानां वेषेधारी बभूव ह ॥ *तस्माच्छिष्ययुतः पाप पोद्यद्दिनकरप्रभः॥९५॥ अनुमलपुरं तत्र दिनानामेकविंशतिम् ॥ स्थित्वा तत्र स्थितान्वीक्ष्य तानुवाच परो गुरुः ॥ ९६ ॥ प्रभातमुखकाले स्वं कृत्यं वदत भो द्विजाः । एवमुक्ता नमस्कृत्य प्रोचुस्ते पुरवासिनः ॥ ९७ ॥ मलासुरहरः स्वामिन्मलारीति प्रसिद्धताम् ॥ लोके प्राप्तः परेशो यस्तस्य मूर्तिमिमे वयम् ।। ९८ । संपूज्यानुदिनं भक्त्या शुनस्तद्वाइनस्य च ॥ वेषभाषादिसंयुक्ताः कण्ठे धृतवराटिकाः ॥ ९९ ॥ निःशङ्कात्रिषु कालेषु नाट्य वाद्यादिभिः प्रभुम् ॥ मला सुपसत्रं तं कृत्वा वासं कुर्महे ॥१००॥ तत्कटाक्षजनिते हि सर्वदावर्धमानसुखसागरे मुताः ॥ तस्य गर्भगमिदं तु नित्यदा चिन्तयाम न सुखे च्छया युताः ॥१॥ किंच वेदेऽस्य सार्वात्म्यं प्रोक्तं तद्वाहनस्य च ॥ तद्विद्धि तत्व मेवातस्तद्वेषादिकधारणम् ॥ २ ॥ इच्छा न जायतेऽन्यत्र तत एव भवानपि ॥ वेदोक्तमिमाचारं सशिष्यः स्वीकरोतु मे ॥ ३ ॥ श्रुतिराह नमः ‘धभ्यः श्धपति भ्यश्च वो नमः ॥ वराटकानि दास्यामो योग्यानीत्युक्त अभाह तान् ॥ ४ ॥ एकोऽ द्वितीयः खलु सर्वसाक्षी स्वमायया सर्वजगद्विधाता ॥ सदादिवेदाभिहितः परेशो यद्भर्भजा रुद्रविरिञ्चिमुख्याः ॥ १०५ ॥ यथा वीरभद्रादिकैरंशभूतैर्लयः साध्यते कापि रुद्रस्य नैव । तथाऽप्यस्ति तेषां विबोधाद्विमुक्तिस्तथा ब्रह्मणोंऽशस्य रुद्रस्य बोधात् [ सर्गः १५] ॐ कणाटभूमेः सकाशात् । घ. 'वेशधा' । ३ घ. वेशभा' । ४ क. नु । ५ क. वै ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५६
दिखावट