सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
५१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तां बन्धुताऽऽगमदुपश्रुतदोहदाि
रादाय दुर्लभमनध्र्यमपूर्ववस्तु ॥
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष
हा हन्त गर्भधरणं स्वलु दुःस्वहेतुः ॥ ६२ ॥
मानुष्यधर्ममनुसृत्य मयेदमुक्त
काऽपि व्यथा शिवमहोभरणे न वध्वा
सर्वव्यथाव्यतिकरं परिहर्तुकामा
देवं भजन्त इति तत्त्वविदां प्रवादः ॥ ६३ ॥




'दोइदं दैौहृदं श्रद्धा लालसं च समं स्मृतम्'


 इति हलायुधादौहृदं गर्भिणीमनोरथो भृशमत्यन्तमबाधत । शारं हिंमामृच्छति
गच्छतीति शारारिः पक्षिविशेषः । ‘अच इ:’ इतीः प्रत्ययः । 'दारारिराटेिराडिश्च'
इत्यमरः । तथाच यथा दुष्टः शरारिः प्रायः परं न मुञ्चति मुञ्चतेऽपीति प्रसिद्धं
तद्वदित्यर्थः । बाधप्रकारमाहाऽऽनीतं यहुर्लभं तदपोहति त्यजत्यन्यद्याचते तचाप्य
पोह्य परित्यज्य पुनरन्यद्वस्तु सा वाञ्छतीत्यर्थः ॥ ६१ ॥ [ दुष्टं गर्भधारणस्वभावदू
षितं हृदन्तःकरणं यस्याः सा दुत्तस्या भावो दौदं गर्भिण्यभिलाषजातमित्यर्थः ]
[ दुष्टश्चासौ शरारिश्धेति विग्रहः । स्वभावक्रूरः शरारिसंज्ञक आाडीति रूयातः काश्ध
त्पक्षिविशेष इति यावत् ] ॥ ६१ ॥
 तां प्रति दुर्लभमनघ्र्यममूल्यमपूर्वं वस्तु समादाय बन्धुसमूह आगमत् । बन्धुतां
विशिनष्टि । उपश्रुता दोहदस्य दौहृदस्याऽऽर्तिर्यया सा बन्धुजनदत्तमसैौ सत्यास्वा
द्य जहर्ष हा हन्त गर्भधरणं खलु दुःखहेतुरिति जगाद चति शेषः ॥ ६२ ॥
 हा इन्तेतीदं मया मानुष्यधर्ममनुसृत्योक्तम् । यतः शिवस्य महसस्तेजसो भरणे
धैरणे वध्वा मम काऽपि व्यथा पीडा नास्त्येतदपि कुत इति चेत्तत्राऽऽह । सर्वपी
डासंपर्क परिहर्तुकामा देवं भजन्त इति तत्त्वविदां मवाद इत्यत इत्यर्थः ।। ६३ ।।
[वध्वाः प्रकृतशिवगुरुपत्न्या इत्यर्थः ] [ शिवेति । ‘डुभृञ्धारणपोषणयोः' इति स्म
रणाच्छंकरांशारूपतेजोधारणे कृते सत्यपि काऽपि व्यथा नाऽऽसेति संबन्धः ]
[ विवादो विशिष्टो निर्णयात्मको वादस्तस्वबुभुत्सोः कथाविशेषोऽस्तीत्यन्वय इह बो
ध्यः ] [ एवं चाहो यद्भजनेनापि भक्तानां सकलातिंत्रातविध्वंसः शास्त्रे सिद्धः स
एव साक्षाच्छंकर एवांशेनावतीर्णो यदुदरे वर्तते तस्याः कथं वा दोहदादिपीडासंभ
वोऽपि स्यात्तस्मादिदं मनुष्यजात्यनुसारेणैव मया वर्णितम् । वस्तुतस्तु न किंचिदपि
तस्याः पीडाजातमासीदिति कव्युक्तिः ] ॥ ६३ ॥
 


१ ख. ग. न्यवस्तु। २ क. धरणे ।