५२६ श्रीमच्छंकरदिग्विजयः । इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः ॥ अमृताब्धिसखैरपास्तमोहै र्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥ ६६ ॥ विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एपः ॥ विदितः प्रथमं मयाऽयमर्थ कथितश्चाङ्ग सुरेशदेशिकाय ॥ ६७ ॥ पूर्व शृङ्गक्ष्माधरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।। सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्र तां टिस्वेत्याख्यदार्यः ॥ ६८ ॥ माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूय ॥ नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ तस्मिन्मूले त्रिभुवनगुरौ सर्वविद्यापवृत्तेः ॥ ६९ ॥ [ सर्गः १४ करुणापूरकेणाऽऽश्लिष्टमन्तरङ्ग यस्य स भार्यपादः श्रीशांकराचार्य इत्येवं वादिन मेनं पद्मपादं पीयूषसमुद्रतुल्यैरपास्तो निराकृतो मोहो यैर्वन्गुः सुन्दरो बन्धो बन्ध ग्रन्थनं येषां तैर्वचोभिः सान्त्वयति स्म । वसन्तमालिका वृत्तम् ॥ ६६ ॥ बतेोति खेदे । विषजन्ममेोहतुल्यश्चासौ दुर्निवारश्चैप कर्मणां विपाको विषमोऽस्ि प्रथममेव मयाऽयमर्थो ज्ञातः सुरेश्वराचार्याय कथितश्च ।। ६७ ।। अतोऽद्य ते शोको यातादपगच्छतु शत्रं तां लिखत्यार्य: श्रीशंकरोऽवोचत् शालिनी वृत्तम् ॥ ६८ ॥ [ शृङ्गक्ष्माधरे श्रृङ्गगिरावित्यर्थः ] ।। ६८ ।। अमुना प्रकारेण पद्मपादमाश्वास्य भाष्यकारस्तां पञ्चपाद कृतिं पूर्वयैवाऽऽः पृथ्य युक्तामाचख्यौ । चित्रं मन्वानान्मत्याह । अव्याहता ज्ञानशक्तिर्यस्य ति त्रिभुवनगुगै सर्वविद्याप्रवृत्तमूले महापुरुषे तचित्रं न भवति । मन्दाक्रान्ता वृत्त ॥ ६९ ॥ [ सर्वति । मूले निदाने । अत एव त्रिभुवनगुरौ । तथा च तैत्तिरीय समाम्नन्ति । 'ईशानः सर्वविद्यानाम्' इत्यादि ] ॥ ६९ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२४
दिखावट