सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ॥ विषमा पुनरीदृशी दशा नः किमु पुक्ता भवदङ्धिकिंकराणाम् ।। ६२ ॥ गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः । निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कृशानौ ॥ ६२ ॥ प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।। न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥ ६४ ।। गता दीना दूना: कति कति न सर्वश्चरपदम् ।। गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे न्मृषा मा भाषिष्ठाः पदकमलांचन्तावधिरसौ ॥ ६५ ॥ गरमभावश्च जात इत्याह । अधुना नो बुद्धिदैवेन यथापुरं संशयरहितं पपादं नाऽऽमोति । विषमा पुनरीदृशी दशा भवदड़धिकिंकराणामस्माकं किमु युनाऽपि तु नैव युक्तत्यर्थः ।। ६२ ।। ५२९ अतिदुःखितः साक्रोशं पुनराह । गुरुवरेति । उपाचित्रा वृत्तम् ॥ ६३ ॥ ननु पुनस्तथेव रचनीयेत्याशङ्कयाह । यदा बहुधाकृतप्रयत्नस्तां विधातुमहं पयते हे भगवंस्तदा यथापूर्वं ताः पटुयुक्तीर्मम बुद्धिनपक्रमते ।। ६४ ।। कृपासमुद्रं तव चरणकोणायशरणं गताः पूर्वं दीना अपि दृनाः खिन्ना अपि सर्वेश्धरपदं के के न प्राप्ता अपि तु सर्वेऽपि प्राप्ताः । गता इत्यस्य देहलोदीपकन्या नोभयत्र संबन्धः । हे गुरो नमनं कर्तुर्मम क इव मन्तुरपराधः । ‘मन्तुः पुंस्यपरा धेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी । पापांश इति चेत्तह पैौ पापांशो गुरुपदक मलचिन्तनमेवावधिर्यस्येति मृषा मा भाषिष्टाः शिखरिणी वृत्तम् ॥ ६५ ॥ १ क. 'नं गुरोः क' । २ ख. चन्न ह्यसौ ।