पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ श्रीमच्छकरदिग्विजयः । न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः ॥ सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ ॥ तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।। सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी ॥ २६ ॥ तीत्व समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ॥ यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥ २७ ॥ इतीरितो वाचमुवाच विद्वा न्मा राम शोकस्य वशं गतो भूः ।। वैशद्वये सन्ति ऋपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ २८ ॥ [ सर्गः १४] तस्मिन्वंशे मम सदृशो नोत्पत्स्यते नाप्यजनिष्ट । कुत इति चेदेवंविधत्वान्ममे त्याह । आदौ सभार्यः पदाद्राज्यात्पच्युतस्तत्राप्ययोध्यायां न स्थितः किंतु सल क्ष्मणो वनमुपागतः । तत्रापि मारीचमायया निहतान्तःकरण: । उपजातिवृत्तम् ॥२५॥ तत्रापि राक्षसपुंगवो रावणो मे भार्या छलेनाहृत । तन्वी कृशाङ्गी ॥ २६ ॥ [ अशोकेति च्छेदः । श्लेषाच्छोकारण्य इत्यर्थः । समा मया स्वधर्मप्रमया सहिता समाऽच्युतपातिव्रत्येत्यर्थः ] ॥ २६ ॥ ॥ २७ ॥ [ तत्वेति । दुष्टं महापराधिनं रावणमित्यार्थिकम् ] ॥ २७ ॥ ॥ २८ ॥ [ ततः स किमकरोत्तदाह । इतीत्यादिपञ्चभिः । ईरितः स्वदुःखनि वेदनपूर्वकं प्रार्थनया प्रेरितः । एतादृशो विद्वानगस्त्यः । वंशद्वये सूर्यचन्द्रोभयवंशयोर सीत्यर्थः । नृपा हरिश्चन्द्रनलादयः एतेन न ह्यत्र मादृगिति समाहितं बोध्यम् ]॥२८॥