पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मध्येमभामण्डलमैक्षताश्वितं शिवाकृतिं सर्वतपोमयं पुनः । लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्रवमाद्राजनैः ॥ २१ ॥ अगस्त्यद्द'वा रघुनन्दनस्ततः स स्वेदमन्तःकरणोत्थमत्यजत् ॥ प्रायो महद्दर्शनमेव देहिनां क्षिणोति स्वेदं रविवन्महातमः ॥ २२ ॥ सभार्थमध्यदिभिरर्चयित्वा रामस्तदङ्धिं शिरसा ननाम । धृतिं समास्थाय पुनबेभाषषं ॥ २३ ॥ दृष्टा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् । मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ २४ ॥ ५१९ प्रभामण्डलस्य स्फुरच्छिवाकृतिं तपोमयं ज्योतिरैक्षत । पुनलॉपाऽऽदिर्य मध्ये स्यास्तथाभृतया मुद्रया लोपामुद्रयेति यावत्तया सहितं कुम्भोद्भवमगस्त्यं जनैः सह। प्राबोधि । जनैः करणैरिति वा ॥ २१ ॥ अगस्त्यदृश्धाऽऽगस्त्यं दृष्टवान् । ततो दर्शनानन्तरमन्तःकरणोत्थं खेदमत्य जत् ॥ २२ ॥ दुःखसागरस्थो मुहूर्त तूष्णीं भूत्वा धृतिं समास्थाय पुनरुवाच ।॥ २३ ॥[ अङ् घिमित्येकवचनं समः समविभक्ताङ्गः इति महारामायणादिमसर्गे श्रीरामवर्णनरीत्या सक लपुमुत्तमलक्षणसंपत्तिसूचकात्यन्तसाम्याभिप्रायमेव ] ॥ २३ ॥ पितृवद्भवन्तं दृष्टा प्रमोदे यस्मादुःखमहार्णवस्थं मां त्वमगा आगतवानसि । अह मात्मानं प्राप्तकामं मन्ये । एवं मुनिमभिमुखीकृत्य स्वदुःखमावेदयति । मे महान्वंश स्तपनादादित्यात्मवृत्तो न तत्रेति परेणान्वयः । इन्द्रवत्रावृत्तम् ॥ २४ ॥ [ 'तपनः पविता रविः' इत्यमरः ] ॥ २४ ॥