सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । १ [ सर्गः १४] शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती । शिवेति गङ्गापरिणामगाऽभू ततोऽथ वैतत्प्रथितं तदाख्यम् ॥ ६६ ॥ नृत्यत्तीरहतस्खलज्जलगतेः पर्यापतद्भिन्दुकं पाश्र्व स्वावसतेर्विनोदवशतो यज्जकन्यापयः ॥ नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्गजटामण्डला तेनैतच्छिवजान्हवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥ ६७ ।। स्रायं स्रायं तीर्थवयेऽत्र नीत्यं वीक्ष वीक्षं देवपादाब्जयुग्मम् ।। शोधं शोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ ६८ ॥ शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य । निमज्ज्य शंभुद्युसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः ॥ ६९ ॥ शिवगङ्गानाम्न्यन्यत्प्रवृत्तिनिमित्तमाह । नाट्यश्रमकर्शितस्य शिवस्य श्रमापनोदाय विचिन्तयन्ती शिवा पार्वती गङ्गेति परिणामगाऽभूत्ततोऽथवा शिवगङ्गारूयमेतत्तीर्थ प्रार्थितम् । उपेन्द्रवज्रा वृत्तम् ॥ ६६ ॥ [ विचिन्तयन्तीति हेतोः शिवा गौर्येव । मङ्गेति । गङ्गारूपेण यः परिणामस्तं गच्छतीति तथेत्यर्थः ] ॥ ६६ ॥ यज्जह्नकन्यापयो धूर्जटौ नृत्यति सति प्रेङ्गतश्चलतो जटामण्डलाद्रालतं तेनैतत्ती थेमन्ये विपश्चिजनाः शिवजाह्नवीति कथयन्ति । प्रेङ्कजटामण्डलं विशिनष्टि । नृत्यता तीरेण हतस्य स्खलतो जलस्य गतिस्मिन् । स्वस्याऽऽवसतेनिकतनात् । पयो विशि नाष्टि । पाश्धे पर्यापतन्तो बिन्दुका बिन्दवो यस्य । शार्दूलविक्रीडितं वृत्तम् ॥ ६७ ॥ [ विनोदेति । ताण्डवविलासवशत इत्यर्थः ] ॥ ६७ ॥ तस्मादास्मंस्तीर्थवर्ये स्रात्वा स्नात्वा देवपादाब्जयुग्मं दृष्ट्रा दृष्टा मन: शोधयित्वा शोधयित्वाऽसौ शुद्धचित्तो मानव इदं ताण्डवं वीक्षेत । शालिनी वृत्तम् ॥ ६० ॥ एतच्छुद्धं पुण्यं वर्णयितुं शिवातिरिक्तो न क्षम इत्याशयेनाऽऽह । शुद्धमिति । योऽमुष्यां शंभुशुरिति निमज्य दाक्षायणीनाथं वीक्षते तस्य। उपजातिवृत्तम्।। ६९ ।। . 'स्य । स्वमिकेतनस्य पार्श्व इति वा । शर': २ ख ग घ. शिवद्युसरिति ।