पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इतीरितः शंकरयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ॥ तीर्थं तदापुत्य ननाम शंभो रङ्घं जितात्मा भुवनस्य गोपुः ॥ ७० ॥ रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः । वत्र्मनि प्रयतमानसो ब्रज न्संददर्श सरितं कवेरजाम् ॥ ७१ ।। यन्पवित्रपुलिनस्थलं पयः सिन्धुवासरसिकाप विष्णवे ।। अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ।। ७२ ।। सह्यपर्वतसुतातिनिर्मला म्भोभिषिक्तभगवत्पदाम्बुजे ।। आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाप सः ।। ७३ ।। गच्छन्गच्छन्मार्गमध्येऽभियातं गेहं भिक्षुमतुलस्याऽऽजगाम ।। दृष्टा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्रवेदी ॥ ७४ ॥ ५०३ इत्येवं केनापि कथितः शंकरे योजितमन्तःकरणं येन स भिक्षुः पद्मपादो मुदितो जगाहेऽवगाहनं कृतवान् ॥ ७० ॥ पुनरनुत्तमो मुनिः पद्मपादो रामसेतुगमनाय मनो दधे । पयतं मनो येन स पथि गच्छन्कवेरजां कावेरी नदीं ददर्श । रथोद्धता वृत्तम् ॥ ७१ ॥ यस्याः पवित्रपुलिनस्थलं क्षीरसमुद्रवासरसिकायापि व्यापकायापि हिरण्यवाससे पद्मनाभादिनाम्रा शोभमानायाभ्यरोचत ॥७२॥ [हिरण्येति । पीताम्बराय ]||७२॥ सह्यपर्वतसुताया अतिनिर्मलेनाम्भसाऽभिषिक्त भगवत्पदाम्बुजे आकलय्य ध्यात्वा बहुशिष्यसंवृतः सोऽभिरुचितस्थलाय मास्थित प्रस्थानं कृतवान् । रथोद्धा वत्तम् ॥७३.] शिष्यैः सहितम् । शालिनी वृत्तम् ।। ७४ ।।