पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुण्डरीकपुरमाययौ मुनि र्यत्र नृत्यति सदाशिवोऽनिशम् ।। वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणांतिः शुचिस्मिता ।। ६२ ।। ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।। जन्ममृन्युभयभेदि दर्शना नेत्रमानसविनोदकारकम् ॥ ६३ ॥ किंचात्र तीर्थमिति भिक्षुगणेन कश्चि त्पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः । देवोऽथ संन्यधित दिव्यसरित्सुतीर्थम् ॥ ६४ ॥ शिवाज्ञयाऽभूदिति तीर्थमेत च्छिवस्य गङ्गां प्रवदन्ति लोके ।। स्रानादमुष्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥ ६५ ॥ ५०१ आदिमाऽऽद्या प्रकृतिः पार्वतीरुपेण परिणता नृत्यन्तं शिावं सदा वीक्षते । रथो द्वता वृत्तम् ॥ ६२ ॥ [ अथास्य व्याघ्रपुरगमनमाह । पुण्डरीकेति ] ॥ ६२ ॥ जन्ममृत्युभयभेदकं दर्शनान्नेत्रमानसविनोदकारकं ताण्डवं दिव्यचक्षरमलाशयो मुनिजनोऽत्रानिशं वीक्षते । जन्ममृत्युभयभेदि यद्दर्शनं तस्मादिति वा ॥ ६३ ॥ किं चात्र तीर्थमिति पद्मपादादिभिक्षुगणेन पृष्टः कश्चिच्छिवपदाम्बुजसक्तचित्तोऽ ब्रवीत् । संपार्थितो महादेवोऽत्र गङ्गां सस्माराथ स्मरणानन्तरं दिव्यसरित्सुतीर्थे संन्नि धापितवती । वसन्ततिलका वृत्तम् ॥ ६४ ॥ एतत्तीर्थे शिवाज्ञयाऽभूदिति हेतोरेतत्तीर्थे शिवगङ्गति लोके पवदन्ति । ये पव दन्ति तानाह । अमुष्यां गङ्गायां स्नानाद्विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः । उपजातिवृत्तम् ॥ ६५ ॥