४७८ श्रीमच्छकरदिग्विजयः । पूर्वे गृहित्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।। न यौवनं वृद्धमुपैति तद्व ब्रजन्हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥ ५६ ॥ अहं गृही नात्र विचारणीयं किं ते न पूर्व मन एव हेतुः । बन्धे च मोक्षे च मनो विशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ।। ५७ ।। नास्त्येव चेदाश्रम उत्तमादि कथं च तत्प्राप्तिनिवृत्तिगामिनौ । प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ।। ५८ ।। तात्पर्यं ते गेहि धर्मेषु दृष्टत्युक्तं तत्राऽऽह । पूर्वे गृहित्वेऽपि तत् चभावो गृहिस्व भावा न भवाम नोति । तद्वत्तथा व्रजन्गमनं कुर्वन्पृििस्थतिं परित्यक्त्वैव गच्छेदित्यर्थः । उपजाति वृत्तम् ॥ ५६ ॥ किचात्रास्मिलोकेऽहं गृहीति न विचारणीयम् । यतस्ते किं पृर्वमिह जन्मनि जन्मान्तरे वा गृहिणो न बभूवुरपि त्वायुरेव । तस्माद्रहित्वं यातित्वे वा मन एव हंतुः । न केवलमेतावदेवापि तु बन्वे च मोक्षे च मन एव हेतुः । नन्व त इत्युक्तत्वात् । तस्माद्विशुद्धो गृहीं भवेद्वा मस्करी वा भवेदुभयथाऽपि न्यूनाधिक्यं नास्तीत्यर्थः ।। ५७ ।। नास्त्येवासावा श्रमस्तुर्य इत्थमित्युक्तं तत्राऽऽह । नास्त्येवेति । हे उत्तमाऽऽदि राश्रमो नास्त्येव वेत्तत्प्राप्तिनिवत्तिगामिन नावावयो: प्रतिश्रवावहं पराजित: संन्यासं प्राप्स्याम्यहं पराजितस्तं हास्यामीत्यरूपं कथं स्तस्तत्राप्यल्पकालैं। यदि तुर्याश्रमो मम्भिमतो नाभृत्तर्हि प्रतिज्ञा मया निरुद्धाऽभूदित्याशयेनाऽऽह । न हीति ॥ ५८ ॥ [ अलपेति । अल्पः सद्यः कृतत्वाददीर्घः कालो ययोम्त।वित्यथे: ] [ निरुद्ध त्यक्ता स्यात्संन्यासाख्यतुरीयाश्रमस्यैवाभावात्तद्विषयकप्रतिज्ञाऽपि वन्ध्यापुत्रविवा हकरणप्रतिज्ञावत्यत्व भवेदित्याशयः ] ॥ ५८ ॥ १ ख. ग. . "मिना'। २ ग. "मानुम'
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७६
दिखावट