पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संभिक्षमाणा न लभन्त एव चे दृहमवश गुरुणा मवशनम् । कथं हि भिक्षा विहिता ननूत्तमा को नाम लोकस्य मुखापिधायकः ॥ ५९ ॥ तत्त्वोपदेशाद्विदितात्मतत्वो व्यधामह सन्यस्सन कृतात्मा ॥ विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥ ६० ॥ पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः । इतः परं मे हृदयं चिकीर्ष त्वदङ्घ्रसेसवां न विलङ्घ्य किंचित् ॥ ६१ ॥ श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसंनिपण्णा मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ॥ सिक्त्वासूक्तामृतौधैरह परिहसञ्जीवयस्यद्य सद्य को वा सेवापटुः स्याद्रणतरणविधौ सद्भरोनैव जाने ॥ ६२ ॥ ४७९ यच्च द्वारि द्वास्थैरित्याद्युक्तं तत्राऽऽह । संभिक्षमाणा इति । गुरुणा भगवता प्रवेशनं कथं विहितं कथं च मद्रहे ननृत्तमा भिक्षा विहिता । यदपि किंवदन्तीत्या द्युक्तं तत्रांप्याह । लोकस्य मुखस्यापिधायक: को नाम न कोप्यस्तीत्यर्थः ।॥ ५९ ॥ यत्तु , संन्यासमप्येष न बुद्धिपूर्वमित्याद्युक्तवन्तस्तत्राऽऽह । पूर्वं कृतात्मा पश्चात् त्वोपदेशाद्विदितात्मतत्वोऽहं वैराग्यात्संन्यमनं व्थवां न तु पराजितो हि यस्माद्वाद स्तत्वविनिर्णयाय ॥ ६० ॥ [ यतोऽहं पृवं कृतात्मा टत अात्मा शास्त्रसंस्कारसं स्कृता बुद्धिर्येन स तथेत्यर्थः । पश्चात्तत्त्वोपदेशाच्छीमद्भिः कृताद्रह्मात्मैक्योपदेशात् । विदितेति ] [ विरागेति । द्वैतस्य मृगाम्बुवन्मिथ्यात्वेन तत्र विषये वैराग्याद्धेतो रिति यावत् ] ॥ ६० ॥ यत्तु भाष्ये कृत्वेत्यादि तत्राऽऽह । पुरेति । इतः परं मे हृदयं त्वदङ्वसेवां विलङ्घ्य न किंचित्कर्तुमिच्छु ॥ ६१ ॥ [नैयायिकात्रै नैयायिकादेः खण्डनाविषय इत्यर्थः । एतेन शास्त्रवासनाक्षयशालित्वं सूचितम् । अत एव । इतः परमिति]॥६१॥ तथाचैवंविधस्य सदुरोस्तव सेवा केनापि कथमपि कर्तु न शक्येन्याह । अद्वैते ५ त. 'त्राऽऽह ।