पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्वन्यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ॥ इत्युक्त्वेमं वार्त्तिकं सूत्रभाष्ये नाभूद्धाहेत्पाप स्वेदं च किंचित् ॥ ४८ ॥ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा वेनं स्वतम्रकृतिनिर्मितये न्ययुङ्क । नैष्कम्र्यसिद्धिमचिराद्विदधत्स चेत्थं न्याय्यामविन्दत मुरेश्वरदेशिकाख्याम् ॥ ४९ ॥ नैष्कम्र्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।। आद्यन्तहृद्यपदबन्धवतीमुदारा माद्यन्तमैक्षततरां परितुष्टचेताः ॥ ५० ॥ ग्रन्थं दृष्टा मोदमानो मुनीन्द्र स्तं चान्येभ्यो दर्शयामास हृद्यम् ॥ तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मि न्यद्वचान्यस्तत्वविद्यः स नेति ॥ ५१ ॥ [ सर्गः १३] हे विद्वन्यथा ग्रन्थसंदर्शनेन नोऽस्माकमीषां शिष्याणां प्रत्ययः स्यादिति सुरे धरमुक्त्वा हाहा सूत्रभाष्ये वार्तिकं नाभूदिति किंचित्खेदं प्राप ।। ४८ ।। एवं शिष्योक्तिभिः शिथिलितः स्वमनोरथेो यस्यासौ श्रीशांकर एनं सुरेश्वरं स्वत श्रकृतिनिर्मितये न्ययुङ्कः । स च नियुक्तोऽचिरादेव नैष्कम्यैसिद्धिं विदधदित्थं योग्यां सुरेश्वरदेशिकारूयामविन्दत । वसन्ततिलका वृत्तम् ॥ ४९ ॥ [ शिथिलितेति । शिथिलितो विशाकलित आत्मविद्यामद्वार्तिकविषयको मनोरथः सुरेश्वरेणैवाद्वैतबह्मसू त्रभाष्य एव वार्तिकं कर्तव्यमिति संकल्परूपमनोवृत्तिविशेषो यस्य स तथेति यावत् । एतादृशः सन् । यावत्स्चतम्रकृतिनिर्मितये न्ययुङ्ग । तावदेव सोऽपि । चशब्दोऽ प्यथेः ] ।। ४९ ।। निष्कर्मतत्त्वविषयाऽवगतिः प्रधानं यस्यामाद्यादन्तपर्यन्तं मनोज्ञतपदबन्धवतीमेवं भूतां तां परितुष्टचेता अभाचार्य आद्यन्तं सम्यगैक्षत ।। ५० ॥ यथा योऽस्मादन्यः स एवं तत्त्वविन्नास्तीति तथा तेषामस्मिन्प्रत्ययश्चाऽऽसीत् । शालिनी वृत्तम् ॥ ५१ ॥