पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । आदिश्येत्थं शिष्यसंघं यतीन्द्र प्रोवाचेत्थं नूत्रभिक्षु रहँस्तम् । भाष्ये भिक्षो मा कृथा वार्त्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥ ४४ ॥ तात्पर्य ते गेहधर्मेषु दृष्टा तत्संस्कारं सांप्रतं शङ्कमानाः ।। भाष्ये कृत्वा वात्तिकं योजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ।। ४५ ।। नाग्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः । द्वारि द्वास्थैर्वारिता भक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ।॥ ४६ ॥ इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वयनल्पे । न्कृत्वा महां दर्शयाध्यात्मनिष्ठम् ।। ४७ ।। इत्थं शिष्यसंघमादिश्य यतीन्द्रो रहासि स्थितं नृत्नभिक्षु सुरेश्वरं वक्ष्यमाणम कारेण पोवाच । हे भिक्षो भाष्ये त्वं वात्तिकं मा कृथा यतो दुर्विदैग्वत्वादिमं शिप्या न सेहिरे । शालिनी वत्तम् ।। ४४ ॥ शङ्कमानैस्तैर्यदुक्तं तद्दर्शयति । गेहिधर्मेषु तव तात्पर्य वीक्ष्य सांपतं तत्संस्कारं शाङ्गमानाः प्राहुः । भाष्ये वात्तिकं कृत्वा स्वीयसिद्धान्तशेषं भाप्यं स योजयेत् । संभावनायां लिङ् । शालिनी वृत्तम् ॥ ४५ ॥ [ स्वीयेति । स्वीयसिद्धान्तः पृर्वमी मांसावार्तिककृत्कुमारिलभट्टाचार्यशिष्यत्वेन स्वस्य तदेकसंमतो यः सिद्धान्तः स शेषोऽङ्गं यस्य तत्तथा ! अथवा स्वीयसिद्धान्तस्य शेषमङ्गीभूतमित्यर्थः ] ॥ ४५ ।। किंच तुर्याश्रमो वेदे सिद्धो नास्त्येवेति माण्डनः सिद्धान्तो भिक्षमाणा द्वारि द्वास्थै वर्यमाणास्ते मण्डनस्य वेश्मान्त: प्रवेशं न लभन्त इत्याद्यां किंवदन्ती जनश्रुआत विदित्वा तेषामनल्पेऽक्षुद्रेऽपि त्वयि प्रत्यया नाऽऽसीत् । तर्हि मया किं कर्तव्य मिति चेत्तत्राऽऽह । स्वातन्त्र्यात्त्वमध्यात्मनिष्ठमेकं ग्रन्थं कृत्वा मह्य दर्शय ॥ ४६ ॥ [ भिक्षमाणाः संन्यासिन इत्यर्थः ] ॥ ४६ ॥ ४७ ॥ ४७५ १ घ. "हस्थम् । २ क. 'दग्धा इमे ।